________________
हरिवंशपुराणं ।
४९७
Jain Education International
मुदीचिमधिष्ठानमात्मीयमुच्चैर्ध्वजत्रातवादित्रधीरध्वनिव्याप्तदिक् चक्रवालां वरं दिव्यगंधांबुवर्षाभिषिक्ता पतत्पुष्पवर्षोपरुद्धोरुरथ्या यथा श्रीनिधानं निधानेन मांगल्यसंसंगिना चारुशौर्य पुरं प्रापदैश्वर्यमाश्वर्यभूतं भुवि प्राकटं विश्वलोकस्य कुर्वन्ना सौ नेमिनाथः शिशुर्माशु ( ? ) सुश्रियं शौरिसौर्य प्रजाशुं (सु) भदं भोजिनीवालभास्वतमुत्तुंगमातंगराजोत्तमांगस्थमादाय तं मातुरुत्संगमानीय शक्रः स्वयं विक्रियाशक्तियुक्तः सहस्रं भुजां भासुरांसस्थलश्रीयुषां स प्रकृत्यपसार्योरुसौंदर्य संदर्भगर्भामरश्री (स्त्री) सहस्राणि चित्रं प्रनृत्यंति विभ्रभुजेष्वग्रतो यादवानां मुदा पश्यतां विश्वकाप्यस्य ( 2 ) घीशत्वलाभादपि प्राज्यलाभं हृदि ध्यायतां स्फारिताक्षं क्षणारन्धसत्तांडवा खंडशोभा प्रयो गान्वितं बाह्यजातिप्रतातप्रवृत्ताभिनेयं सभ्रूक्षोभलीलं सदिचक्रभेदं सभूमिप्रयातं महानंदसनाटकं राज्यदक्षो ननाट स्फुटीभूतनानारसोदारभावं ततोर्हगुरुं देवराजः प्रणम्य प्रपूज्यान्यमत्यैरनध्यैरलभ्यैर्विभूषादिभिभूषयित्वा जिनस्यामृताहारमुख्यं करांगुष्टके दक्षिणे न्यस्य रक्षानिमित्तं
३२
एकोनचत्वारिंशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org