________________
५०४.
हरिवंशपुराणं।
एकचत्वारिंशः सर्गः। अलब्धपारमुटुक्तैरप्यनुत्पन्नबुद्धिभिः । अतिगंभीरतायोगादलंघितनिजस्थिति ॥५॥ तुंगभंगतरंगोद्यदंगपूर्णमहार्णसं । पुराणमार्गसंपातनदीमुखमनोहरं ॥६॥ अनात्ममहारत्नमुक्ताकरमनादिकं । वैपुल्यस्वच्छतासंगादंगीकृतनमः श्रियं ॥७॥ आत्मांतः स्थापितानंतजीवरक्षादृढव्रतं । अलंघितपदं सर्वैर्वादिभिर्विजिगीषुभिः ॥८॥ निरस्यं तमनंतानुबंधितापमुपाश्रितं । मुखेन स्पर्शनेनापि स्वावगाहेन किं पुनः ॥९॥ निशम्यार्णवमुद्गीर्णमिव शास्त्रार्णवं जिनैः। विप्रिये राजकं राजदाकीर्णकुसुमांजलिः ॥१०॥ नेमिनाथागमोद्भूतसम्मदेनेव भूरिणा । नृत्यन्निवोर्मिदोर्वाचिर्बभौ शंखस्वनोद्धरः ॥११॥ प्रवालमौक्तिकैरयं स्वतरंगकरैः किरन् । स्वागतं व्याजहारेव हरये मुखरोंबुधिः ॥१२॥ युगप्रधानमंभोधिलं वीक्ष्य भषेक्षणः । अंभःस्थलैः समुद्यद्भिरभ्युत्तिष्ठदिवाबभौ ॥१३॥ समुद्रविजयाक्षोभ्यभोजादिविषयां मुदं । आविष्कुर्वन्निवाभात्स्वां समुद्रः फेनमंडलैः ॥१४॥ ततस्तिथौ प्रशस्तायां कृतमंगलसंनिधिः । कृष्णः स्थानेप्सया चक्रे सबलोऽष्टमभक्तकं । १५॥ दर्भशय्याश्रिते तस्मिन् कृतपंचगुरुस्तवे । नियमस्थितया धीरे समुद्रस्य तटे स्थिते ॥१६॥ गोतमाख्यः सुरो वाढ़ि सौधर्मेंद्रनिदेशतः । न्यवर्तयदरं शक्तः कृतकालांतरस्थितिं ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org