________________
हरिवंशपुराणं ।
४९४
एकोनचत्वारिंशः सर्गः। प्रियसर्वहितार्थवचौविभवं विभवं सुरभीकृतदिग्विवरं
वरसंहतिसंस्थितिरूपयुतं युतसर्वसुलक्षणपंक्तिरुचि । रुचिमत्पयसा समदेहरसं रसभावविदं मलमुक्ततनुं
तनुजस्विदहीनमनंततया ततया सहितं भुवि वीर्यतया ॥ यतयात्मधिया जितयात्मभुवं भुवमर्च्यतरां सुखसस्यभृतं
भृतविश्व ! भवंतमनंतगुणं गुणकांक्षितया वयमीश नताः । योजनभूरिसहस्रनभोग भोगकरत्वमिवाचलनाथं
नाथ ! परं स्नपनासनमिद्धमिद्धमतिः कुरुते क उदारः॥ ईदृशमीश विभुत्वममानं मानधनामरमानवमान्यं ।
मान्यतमोऽन्यतमो भुवि नाको नाकभवोऽपि जिनैति यथा त्वं ॥ शैशव एव जनतिगसत्व सत्वहितो भुवनत्रय नूतः
नूतनभक्तिभरेण नतानां तानव मानवसौख्यकर त्वं ॥ १ मानस इति व पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org