________________
४९५
हरिवंशपुराणं ।
एकोनचत्वारिंशः सर्गः। कामकरींद्रमृगेंद्र नमस्ते क्रोधमहाहिविराज नमस्ते
मानमहीधरवज नमस्ते लोभमहावनदाव नमस्ते । ईश्वरताधरधीर नमस्ते विष्णुतया युत देव नमस्ते
अर्हदचित्यपदेश नमस्ते ब्रह्मपथप्रतिबंध नमस्ते ॥ सत्यवचोनिवहैः सुरसंघा इत्यभिनुत्य जिनं प्रणिपत्य
तारकमुग्रभवाद्वरमेकं याचितवंत इनं वरवोधि । अथ मथितमहामृतांभोधिसंशुद्धपीयूषपिंडातिपानातिदोषाच्चिराज्जीयमाणेष्विवोद्गीर्णमाणेषु तत्खंडखंडेषु शंखेषु खे खेदमुक्तैः सुरैस्तोषपोषादनीषन्मनीषैर्भृशं पूर्यमाणेषु तद्यथा वाद्यमानोरुगंभीरभेरीमृदंगा नकादिप्रभूताततातोद्यशब्देषु संवृत्तजैनेंद्रजन्माभिषेकोत्सवोद्घोषणायेव निश्शेषलोकांतदिक्चक्रबालोत्तराक्रांतिमभ्युत्थितेषु प्रनृत्यत्सुविद्याधरव्रातदेवांगनातुंगसंगीतनादाभिरामातिशृंगारहास्याद्भुतोद्यद्रसोदारवारांगसत्वस्फुटाहार्यहार्यात्मदिव्याभिनेयप्रवृत्ताप्सरोवृंदबंधेषु सौधर्मकल्पाधिपःसंभ्रमाद्विभ्रमभ्राजमानोद्यदैरावतस्कंध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org