________________
हरिवंशपुराणं ।
४९३
विधिना विधूय कुकर्ममलं सकलं भुवि भव्यजनः प्रणतः ॥ प्रणतिप्रिय ! संप्रति जन्मजरामरणामय भीम महाभवदुःखसमुद्रमपारमतीत्य समेष्यति मोक्षमशेषजगच्छिखरं । शिखराग्रसमग्रगुणाश्रय सिद्धमहापरमेष्ठिमहोपचयं
प्रविदंति चयं मुनयः परमं पदमेकमिहाक्षरमात्महितं ॥ महितं महतां महदात्मगतं सततोदयमंतविवर्जितमूर्जितसुखं प्रतिलभ्यमभव्यजनैः खलु यत्र सुखं । सुखमत्र यदीश्वरविश्वजगत्प्रभुताप्रतिबुद्धमपि त्रिद
शेंद्र नरेंद्रपुरस्सरदे व मनुष्यविशेषमहाभ्युदयप्रभवं ॥ प्रभवप्रलयस्थितिघर्मपदार्थनिरूपण नैपुणशासन
aresशासनसेवनयैव भविष्यति नान्यमताश्रयतः । श्रयतामिति निश्चयमेत्य भवंति भवत्यभिभूतिमतिप्रवणाः सततं तनुभृन्निवा भुवि येऽत्र त एव जिनेंद्रकृतित्वमिताः ॥
Jain Education International
एकोनचत्वारिंशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org