________________
हरिवंशपुराणं ।
४९२
एकोनचत्वारिंशः सर्गः। त्रितयात्मकदर्शनबोधचरित्रविनिर्मलरत्नविराजित
पूर्वभवोग्रतपोयुतषोडशकास्मसंचिततीर्थकरप्रकृते ॥ प्रकृतेः स्थितितोऽनुभवाच विशिष्टतराद्भुतपुण्यमहोदय
मारुतवेगविचालितदेवनिकायकुलाचलसेवितपादयुग । युगमुख्यमुखांबुजदर्शनतृप्तिविवर्जितभव्यमधुव्रतधीर
तरस्तवनध्वनिवृहितदुंदुभिनादनिवेदितशुद्धयशः ।। यशसा धवलीकृतजन्मपवित्रितभारतवर्षमहाहरिवंश
महोदयशैलशिखामणिबालदिवाकरदीप्तिजितार्कवपुः । वपुषाधिककांतिभृताजितपूर्णशशांकविभो ! हरिनीतमणि
द्युतिमंडलमंडित दिङ्मुखमंडल नेमिजिनेंद्र ! नमो भवते ॥ भवतेह भुवां त्रितये भवता गुरुणा परमेश्वरविश्वजनीन
महेच्छधिया प्रतिपादितमप्रतिमप्रतिमारहितं हितमुक्तिपथं प्रथितं विधिवत प्रतिपद्य विधायि तपोविविधं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org