________________
हरिवंशपुराणं ।
४९१
एकोनचत्वारिंशः सर्गः ।
शताध्वरभुजोद्धतैर्जलधरैरिवोद्गर्जितैः सहस्रगणनैर्घटैः शुचिपयोभिरावर्जितैः । जिनोऽभिषवमाप्नुयाद्धवलमद्रिराजं व्यधाद्दधाति धवलात्मतामधवलो हि शुद्धाश्रयात् ॥ ५२ ॥ सतोषमपरेऽपि ते निखिलकल्पनाथादयो यथेष्टमभिषेचनं विदधुरंबुभिर्निर्मलैः । जिनस्य जिनशासनाधिगमशस्तरागोदयः प्रकाशिततनूरुहास्तनुतरात्मजन्माधयः ॥ ५३ ॥ ततः सुरपतिस्त्रियो जिनमुपेत्य शच्यादयः सुगंधितनुपूर्वकैर्मृदुकराः समुद्वर्तनं । प्रचक्रुरभिषेचनं शुभपयोभिरुच्चैर्घटैः पयोधर भरैर्निजैरिव समं समावर्जितैः ॥ ५४ ॥ दुकूलमणिभूषणखगनुलेपनोद्भासितं प्रयोज्य शुभपर्वतं विभुमरिष्टनेम्याख्यया । सुरासुरगणास्ततः स्तुतिभिरित्थमिंद्रादयः परीत्य परितुष्टुवुर्जिनमिति सुपृथ्वीश्रियं ।। ५५ ।। इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ जन्माभिषेकवर्णनो नाम अष्टत्रिंशः सर्गः ।
एकोनचत्वारिंशः सर्गः ।
सकलश्रुतमत्यवधिप्रविकासि विशुद्धविलासविनिद्रविशिष्टविलोचन दृष्टिविदृष्टसमस्त चराचरतश्वजगत्त्रितय |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org