________________
हरिवंशपुराणं।
अष्टत्रिंशः सर्गः। नटत्सु कुतपोत्कटप्रकटनाटकेषु स्फुटप्रकृष्टरसभावहावलयरंजितस्वर्गिषु ॥ ४५ ॥ रटत्पटहशंखशब्दहरिनादभेरीरवैर्गिरींद्रसुवृहद्गुहाप्रतिनिनादसंवर्धितैः । दिगंतरविसर्पिभिर्जिनगुणौरवप्रस्फुटैरशेषभुवनादरे श्रुतिसुखावहैः पूरिते ॥ ४६॥ नभस्तलमितस्ततस्थगयति स्फुरत्सौरभे विचित्रपटवासधूपपटले सुपुष्पोत्करे । सुगंधयति बंधुरे परमगंधहृद्य दिशां मुखानि मुखपांडुकप्रभवमातरिष्वन्यलं ॥४७ ॥ गृहीतबहुविग्रहः सुरपरिग्रहो वासवः समारभत भक्तितो जिनमहाभिषेकं स्वयं ।। विधातुममराहतैस्तु मणिहमकुंभच्युतैः पयोमयपयोनिधेः शुभपयोभिरुद्गांधिभिः॥४८॥ बहुत्रिदशपंक्तिभिः प्रमदपूरिताभिर्नभः स्फुरन्मणिगणोज्वलत्कलशपाणिभिः सर्वतः । सुमेरुगिरि पंचमांबुनिधिमध्यमध्यासितं रराज बहुरज्जुभिस्तदवनीयमानं तदा ॥ ४९ ।। गृहाण कलशं लघु क्षिप नयाशु संधारय प्रभुं च मम सन्मुखं त्वमिति कर्णरम्यारवैः । करात्करमितस्ततः सुरगणस्य कुंभावली श्रिया श्रयति पांडुकं वनमिवोरुहंसावली ।। ५० ॥ सुवर्णमयरूपकांतिमयकुंभकाल्यो बभुः प्रवेगमरतां वशा रविशशांकमाला यथा ।। सुपक्ष'टदीप्तिमिः खचितदिङ्मुखा खे रयोत्पतद्गरुडहंसपंक्तय इव यथानेकशः ॥ ५१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org