________________
हरिवंशपुराणं ।
४८९
अष्टत्रिंशः सर्गः। शची शुचिमचापलां समुपनेतुमीशं शिशुं प्रसूतिगृहमाविशन्निति तदा बभासादरा ॥ ३९ ॥ विकृत्य सुरमायया शिशुमिहापरं निद्रया प्रयोज्य जिनमातरं प्रणतिपूर्वकं यत्नतः । प्रगृह्य मृदुपाणिना शिशुमदादसौ स्वामिने प्रणम्य शिरसा ददावमरराट् कराभ्यां जिनं ॥४०॥ जिनेंद्रमुखचंद्रकं विजितपुंडरीकेक्षणं विशेषविजितासितोत्पलवनश्रियं तं श्रिया । निरीक्ष्य जिनपद्मपाणिचरणं सहस्रेक्षणः सहस्रगणनेक्षणैरपि ययौ न तृप्तिं तदा ॥ ४१ ॥ विधाय स सुरद्विपस्फटिकभूभृतो मस्तके जिनेंद्रशिशुमिंद्रनीलमणितुंगचूडामणि । चचाल चलचामरातपनिवारणोचैरुचिश्चलोर्मिकुलसंकुलो जलनिधिर्यथा फेनिलः ॥ ४२ ॥ सुरेभवदनत्रिके दशगुणे द्वयोश्चाष्ट ते रदाः प्रतिरदं सरः सरसि पद्मिनी तत्र च । भवंति मुखसंख्यया सहितपद्मपत्राण्यपि प्रशस्तरसभाविताः प्रतिदलं नटत्यप्सराः ॥ ४३॥ तथाविधविभूतिभिः समुपगम्य मेरुं मुराः परीत्य पृथु पांडुकाख्यवनखंडमभ्येत्य ते । जिनेंद्रमतिरुद्रपांडकशिलातले कोमले सुपंचशतकामुकोचहरिविष्टरेऽतिष्ठपन् ॥ ४४ ॥ ततश्च धृतपूजनोपकरणेषु देवांगनागणेषु परितःस्थितेष्वभिनवोत्सवानंदिषु ।
१ मुदितचापला इति क पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org