________________
हरिवंशपुराणं ।
४८८
अष्टत्रिंशः सर्गः ।
विचित्र गुणचित्रासह वसुंधरा चाप्यमूः गृहीतमणिदर्पणा दिश इवेंदुमत्यो बभुः ॥ ३३ ॥ इला नवमिकासुरासहितपीठपद्मावती तथैव पृथिवी परप्रवरकांचना चंद्रिका | प्रभास्फुटिततारकाभरणभूषिता भास्वराः सचंद्ररजनीनिभा धृतसितातपत्रा बभ्रुः ॥ ३४ ॥ श्रिया च धृतिराशया च वरवारुणी पुंडरीकिणी स्फुरदलंबुसा च सह मिश्रकेशी द्दिया । सचामरकराइमा बभ्रुरुदारफेनावली तरंगकुलसंकुला इव कुलापगाः संगताः || ३५ ॥ कनत्कनकचित्रया सहितया पुनश्चित्रया त्रिलोकसुरविश्रुतत्रिशिरसा च सूत्रामणिः । कुमार्य इव विद्युतो विलसितैर्जिनस्यांतिके तमोनुद इवाबभुर्जलधरस्य विद्युल्लताः || ३६ || सहैव रुचकप्रभा रुचकया तदध्यासया परा च रुचकोज्वला सकलविद्युदग्रेसराः । दिशां च विजयादयो युवतयश्वतस्रो वरा जिनस्य विदधुः परं सविधि जातकर्मश्रिताः ॥ ३७ ॥ चतुर्विधसुरासुरा लघु समेत्य तावत्पुरं कुबेरजनिताद्भुतप्रथमशोभमुच्चैर्ध्वजं । परीत्य जिनभक्तितस्त्रिदशनाथलोकश्रियं विजेतुमिव चोद्यतं ददृशुरादृताः सेंद्रकाः ॥ ३८ ॥ प्रविश्य नगरं ततः शतमखः स्वयं सत्सखः शिवास्पदसमीपगः स्थितिविदादिदेशाद्यतां ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org