________________
४८७
हरिवंशपुराणं।
अष्टत्रिंशः सर्गः। स्वरैरपि च सप्तभिर्मधुरमूर्छनाकोमलैः सवीणवरवंशतालरवमिश्रितैराश्रितैः । अपूर्णभुवनोपरं बहिरतोप्यनीकं बभौ युवत्यमरबंधुरं धृतिकरं तु गंधर्वजं ॥ २७ ॥ समस्तरसपुष्टिकं बलमहारिगात्रोत्करैः मनःकुसुममंजरीरमरभूरुहामाहरत् । प्रनृत्य पुरुनर्तकीमयमनीकमप्यंबरैनितंबभरमंथरं निचितमाविरासीत्तथा ॥ २८ ॥ सहस्रगुणितोदिता चतुरशीतिरेषु स्फुटं प्रमाणपि सप्तसु प्रथमसप्तकशास्वतः । परं द्विगुणमेतदेव सफलेषु कक्षांतरेष्वनीकवलयेष्वियं क्रमभिदा समाप्तेः स्थितिः ॥ २९ ॥ यथापथमनीकिनः सकलनाकलोकाधिपा जिनेंद्रजननाभिषेककरुणाय यावद्वियत् । वितत्य पुरमाबजंति मुदितास्तु तावदिशां कुमार्य उपकुर्वते निखिलजातकमोहताः ॥ ३० ॥ तथाहि विजया स्मृता जगति वैजयंती परा परोक्तिरपराजिता प्रवदिता जयंती परा । तथैव सह नंदया भवति चापरानंदया सनंद्यभिधवर्धनां हृदयनंदिनंदोत्तरा ॥ ३१ ॥ कुचानिव निजानिमा विगलदंगशृंगारसद्रसेन भरितान् भृशं विपुलतुंगभंगारकान् । समूहुरभिरामकानमलहारभारोज्वला ज्वलन्मणिविभूषणश्रवणकुंडलोद्भासिताः ॥ ३२ ॥ तथैव सयशोधरा प्रथितसुप्रबुद्धामरी सुकीर्तिरपि सुस्थिता प्रणधिरत्र लक्ष्मीमती।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org