________________
हरिवंशपुराण।
४८६
अष्टत्रिंशः सर्गः । अनेकमुखदत्तसत्कमलखंडपत्रावलीसुरूपसुरसुंदरीललितनाटकोद्भासिनं । हिमाद्रिमिव जंगमं निजवधूभिरैरावतं करींद्रमधिरूढवानभिरराज सौधर्मपः ॥ २१ ॥ अनीकमथ योधजं रचितसप्तकक्षांतरं गृहीतवलयाकृतिप्रकृतिपौरुषाधिष्ठितं । परीत्य कुलिशायुधं कुलिशपूर्वशस्त्राटवीनिरुद्धगगनांतरं भृशमशोभत त्रैदशं ॥ २२ ॥ जवेन लघु लंघयद्रुतसमीरणं हेषितप्रयोजितवियोजितत्रिभुवनांतरालं तथा । वृहदहिरवर्तत प्रविततं हयानीकमप्यरं गगनवारिधेरधितरंगरंगायितं ॥ २३ ॥ सुमुग्धमुखकौशिकैर्नयनपुंडरीकैनिजैललत्ककुदवालधिश्रुतिसुगात्रसास्नापुटैः । सुवर्णखुरशृंगकैः प्रतिवृष वृषानीकमप्युवाह परितःस्थितं विपुलकांतिमिदुप्रभां ॥ २४ ॥ विभिन्नमपि सप्तधा स्वयमभेद्यमप्यद्रिभिनभोवलयसागरे त्रिदशयानपात्रायितं । प्रभाविजितविस्फुरद्रविरथं स्थानीकमप्यभादतिमनोहरं वलयवत्परिक्षेपकं ॥ २५ ॥ विकीर्णघनशीकरैः करिभिरूख़लीलाकरैः प्रवृत्तगुरुगर्जितैर्गुरुतरिवांभोधरैः। महामरुदधिष्ठितैः सुघटितं गजानीकमप्यनेकरचनांतरं व्यतनुत श्रियं प्रावृषः ॥ २६ ॥
१- हयानीकपं परं गगनवारिधेः' इति क पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org