________________
हरिवंशपुराणं ।
४८५
Jain Education International
जगत्रितयवासिनञ्श्चलितमौलिसिंहासनास्ततोऽसुरसुराधिपाः प्रणहिताबघिस्वेक्षणाः प्रबुध्य जिनजन्मजात पुरुसम्मदाः संपदा प्रचेलुरिह भारतं प्रति चतुर्णिकांयामरैः ॥ १५ ॥ विशुद्धतमदृष्टयो मुकुटकोटिसंघटित - स्फुरत्कटक रत्न रश्मिख चिताखिलाशामुखाः । प्रणेमुरहमिंद्रदेव निवास्तु तत्र स्थिताः पदान्यभिसमेत्य सप्त हरिविष्टरेभ्यो जिनं ॥ १६ ॥ क्षितेरसुरनागविद्युदनलानिलद्वीपसत्सुपर्णसुमहोदधिस्तनितदिक्कुमाराभिधाः । समुद्ययुरितस्ततो भवनवासिनो भास्वरास्तदा विदधतो दिशो दश दशप्रकारामराः ॥ १७ ॥ सुकिंपुरुषकिन्नरामरमहोरगा राक्षसाः पिशाचसुरभूरिभूतवरयक्षगंधर्वकाः । मनोहरणदक्षगीतबहु नृत्ययुक्तांगनाः समीयुरिह मध्यलोकरतयोऽष्टधा व्यंतराः ॥ १८ ॥ गणाश्च शुचिरोचिषां प्रथितपंचधाज्योतिषां ग्रहर्क्षशशिभास्करप्रतततारकाख्यायुषां । भौ युगपदापतनिजविमानकेभ्योऽधिकं विधातुमिव चोद्यतो जगदिहापरं ज्योतिषां ॥ १९ ॥ यथास्वमपि सप्तभिः प्रथमकल्पनाथादयोऽप्यनीकनिवहैर्वृता युगपदच्युतेंद्रोत्तराः । प्रतिस्वमपि सप्तभिः सकलकल्पजैः षोडश प्रमोदवशवर्तिनः समभिजग्मुरिंद्राः सुरैः ॥ २० ॥ १ चतुर्निकायाः सुराः इति क पुस्तके |
अष्टत्रिंशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org