________________
हरिवंशपुराण।
४८४
अष्टात्रंशः सर्गः। महेंद्रवरशासनाभिरतदेवदेवीकृतप्रभूतिविभवान्वितौ गमयतः स्म मासान्नव ॥ ८ ॥ ततः कृतसुसंगमे निशि निशाकरे चित्रया प्रशस्तसमवस्थिते ग्रहगणे समस्ते शुभे । असूत तनयं शिवा शिवदशुद्धशुच्यग्रज-त्रयोदशतिथौ जगज्जयनकारिणं हारिणं ॥ ९ ॥ त्रिवोधशुचिचक्षुषा दशशताष्टसल्लक्षणैः सुलक्षितसुनीलनीरजवपूर्वपुर्विभ्रता । जिनन जिनरोचिषा बहुगुणीकृतं मंडलं प्रसूतिभवनोपरे मणिगणप्रदीपार्चिषां ॥ १० ॥ विपांडुरपयोधरा दिवमग्लंडचंद्राननां निशि स्फुरिततारकानिकरमंडनाहारिणीं । तरंगभुजपंजरोदरविवर्तिनी स्वेच्छया चुचुंब मदनांबुधिः सति जिनेंद्रचंद्रोदये ॥ ११ ॥ गभीरगिरिराजनाभिकुलशैलकंठाकुलस्तनोच्चलद्वाहिनी निवहहारभाराधरा । चचाल कृतनर्तनेव मुदितात्र जंबूमती समुद्रवलयांबरा रणितवेदिकामेखला ॥ १२ ।। अनुत्तरमुखोज्वलः शिवपदोत्तमांगस्तदा नवानुदिशसद्धनुर्नवविमानकग्रीवकः । सुकल्पवपुरंतराधरजगत्कटीजंघकत्रिलोकपुरुषोऽचलत्कटिकरो नटित्वा स्फुटं ॥ १३ ॥ अभूद्भवनवासिनां जगति तारशंखस्वनो रराट पटहः पटुर्झटिति भौमलोकेऽखिले । रखे गति सिंहनाद उरुघोषघंटानदत्सुकल्पभवने जिनप्रभववैभवाद्वै स्वयं ॥ १४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org