________________
हरिवंशपुराणं ।
४८३
पुरैव परिशोधिते विदितदिक्कुमारीगणैर्बभार बिमलोदरे प्रथमगर्भमुद्यत्प्रभं । स्वबंधुजन सिंधुवृद्धिकरमस्ततापोदयं शिवाय जगतां शिवा शशिनमंबर श्रीरिव ॥ २ ॥ चकार न वियोजितत्रिवलिभंगशोभामसौ न च श्वसनवाधिताधरसुपल्लवं वालसां । स्तनस्तवकभारनम्रतनुमध्य सुस्त्रीलतां नितांतकृपयेव तां फलभरो न चावाधत ॥ ३ ॥ निगूढ़ निजगर्भसंभवतनोरिव व्यक्तये पयोधरभरो ययावतितरां पयःपूर्णतां । तदुद्वहनगौरवादिव विशेषविस्तीर्णतां जगाम जघनस्थली निविडमेखलाबंधना ॥ ४ ॥ मनोभुवनरक्षणे सकलतत्त्वसंवीक्षणे वचोऽपि हितभाषणे निखिलसंशयोत्पेषणे । वपुर्वतविभूषणे विनयपोषणे चोचितं बभूव जिनवैभवादतितरां शिवायास्तदा ॥ ५ ॥ महामृतरसाशनैः सुरवधूभिरापादितैरनंतगुणकांतिवीर्यकरणैः समास्वादितैः । जिनेंद्र जननी तनुस्तनुरपि प्रभाभिर्दिशो दशापि कनकप्रभा विदधतीव विद्युभौ ।। ६ ॥ करींद्रमकरस्फुरत्तुरगतुंगमीनावली महारथसुयानपात्रनृपवाहिनीसन्मुखैः । विशद्भिरनुकूलगैः समभिवर्धितोद्धोर्मिभिः समुद्रविजयोऽन्वहं पृथु समुद्रलीलां वहन् ॥ ७ ॥ जिनेशजनकौ जगद्वलयवेलयाभ्यर्चितौ परस्परविवर्धमानपृथुसम्म दौ नित्यशः ।
Jain Education International
अष्टत्रिंशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org