________________
हरिबंशपुराणं।
चतुर्थः सर्गः। अशीतिश्चतुरू; स्याद् दिक्ष्वशीतिर्विदिक्षु तत् । निदाघस्यापि तद्युक्तं चतुः ष्टियुतं शतं ॥१२२ ।। दिवशीतिर्विदिक्षु ज्ञैः षट्सप्ततिरुदाहृता। युक्तं प्रज्वलितस्मपि षट् पंशाशं शतं हि तत् ।। १२३ ।। दिक्षु षट् सप्ततिज्ञेया चतुरूना विदिक्षु सा । शतमुज्ज्वलितस्योभे चत्वारिं तथाष्टकं ॥१२४॥ दिक्षु द्वासप्ततिः सा स्यादष्टापष्टिविदिक्षु तत् । युक्तं संज्वलितस्यापि चत्वारिंशं शतं मतं ।।१२५ः। अष्टाषष्टिमहादिक्षु चतुःषष्टिविदिक्षु तत् । संप्रज्वलितसंज्ञस्य द्वात्रिंशत्संयुतं शतं ॥ १२६ ॥ श्रेणिबद्धानि चामूनि सहस्रं च चतु:शती । पंचा तिश्च जायंते नवस्वपि सहेंद्रकैः ॥ १२७ ।। लक्षाश्चतुर्दशाष्टाभिर्नवतिश्च प्रकीर्णकाः । सहस्रताडिता पंच-शती पंचदशापि च ॥ १२८ ॥ चतुःषष्टेिमहादिक्षु षष्टिरेव विदिक्षु च । आरस्यापि शतं मिश्रं चतुर्विंशतिसंमतं ।। १२९ ।। षष्टिरेव महादिक्षु षट्पंचाश द्विदिक्षु च । तारस्यापि च तन्मिश्रं षोड ग्रं शतं मतं ॥ १३० ।। षट् पंचाशन्महादिक्षु द्वापंचाशद्विदिक्षु च । मारस्यापि च तन्मिश्रं मतमष्टोत्तरं शतं ॥ १३१ ॥ द्वापंचाशन्महादिक्षु चत्वारिंशत् सहाष्टभिः । वर्चस्कस्य विदिक्षु स्यात्तन्मिश्रं शतमेव तु ॥१३२॥ चत्वारिंशत् सहाष्टाभिर्महादिक्षु विदिक्षु तु । तमकस्य चतुर्भिश्च युतं वा नवतियं ॥ १३३ ॥ चत्वारिंशचतुर्भिश्च महादिक्षु विदिक्षु तु । चत्वारिंशत् पडस्येयमशीतिश्चतुरुत्तरा ॥ १३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org