________________
हरिवंशपुराणं।
चतुर्थः सर्वः। चत्वारिंशन्महादिक्षु षट्त्रिंशच्च विदिक्षु च । युता षडपडस्येयं षट्सप्ततिरुदाहना ॥ १३५ ॥ इंद्रकैः सह सप्त स्युः शतान्येतानि सप्त च । श्रेणीबद्धानि सर्वाणि नरकान्यत्र संभवाद ॥१३६।। लक्षा नवसहस्राणि नवतिनेवभिः सह । नवतिश्च त्रिभिर्युक्ता द्विशती च प्रकीर्णकाः ॥१३७॥ षत्रिंशच्च महादिक्षु द्वात्रिंशत्तु विदिक्षु तत् । तमःश्रुतेद्वयं मिश्रमष्टापष्टिरुदाहृता ॥ १३८ ॥ द्वात्रिंशत्तु महादिक्षु तमस्याष्टौ च विंशतिः । विदिक्षु मिश्रितं तच्च षष्टिरिष्टा मनीषिभिः॥१३९॥ अष्टाविंशतिरुद्दिष्टा महादिक्षु विदिक्षु तु । ऋषभस्य चतुरूना स्याहापंचाशवयं युता ॥ १४०॥ चतुर्विंशतिरंध्रस्य महादिक्षु विदिक्षु तु । विंशतिमिश्रितं तस्य चत्वारिंशचतुर्युता ॥ १४१ ।। विंशतिस्तु महादिक्षु विदिक्ष्वपि च पोडश । तमिश्रस्य विमिश्रं तत् षट् त्रिंशन्नरकाणि तु॥१४२।। इंद्रकैःसह सवोणि श्रेणीबद्धान्यमून्यपि । द्वे शते नरकाण्युक्ते पंचष्टिविमिश्रिते ॥ १४३ ॥ द्वे लक्षे च सहस्राणि नवभिनवतिस्तथा । शतानि सप्त कथ्यते पंचत्रिंशत् प्रकीर्णकाः ॥१४४॥ षोडशैव महादिक्षु द्वादशैव विदिक्षु च । हिमस्यापि विमिश्रं स्यादष्टाविंशतिरेव तत् ॥१४५॥ द्वादशैव महादिक्षु विदित्वष्टौ तु तवयं । सहितं नरकाणां स्याद् वर्दलस्य तु विंशतिः।।१४६॥ अष्टावेव महादिक्षु चत्वार्येव विदिक्षु च । लल्लकस्य समेतं तु द्वादशैव तु तवयं ॥ १४७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org