________________
हरिवंशपुराणं।
चतुर्थः सर्गः। त्रिषष्टिरिंद्रकैः सार्ध श्रेणीबद्धान्यमून्यपि । नवतिश्च सहस्राणि नवभिः सहितानि तु ॥ १४८ ॥ शतानि नव तत्रापि द्वात्रिंशच्च प्रकीर्णकाः। प्रकीर्णनारकाकीर्णाः प्रणीताः प्राणिदुःसहाः॥१४९।। एकमेव महादिक्षु विदिक्षु नरकं न हि । अप्रतिष्ठानयुक्तानि पंचस्युने प्रकीर्णकाः ॥ १५ ॥ कांक्षाख्यश्च महाकांक्षः पूर्वपश्चिमयोर्दिशोः । पिपासातिपिपासाख्यौ दक्षिणोत्तरयोस्तथा ॥१५१॥ सीमेंतकेंद्रकस्यामी चत्वारोऽनंतराः स्थिताः। दुर्वर्णनारकाकीर्णाः प्रसिद्धा नारकालयाः ॥१५२॥ अनिच्छाख्यो महानिच्छो निरयो विंध्यनामकः। महाविध्याभिधानश्च तरकस्य तथा स्थिताः। १५३॥ दुःखाख्यश्च महादुःखो निरयो वेदनाभिधः । महावेदननामा च तप्तस्यामी तथा स्थिताः।।१५४॥ निसृष्टातिनिसृष्टाख्यौ निरोधो निरयोऽपरः। महानिरोधनामा च तेऽप्यारस्य तथा स्थिताः।१५५॥ निद्धातिनिरुद्धाख्यौ तृतीयश्च विमर्दनः। महाविमर्दनाख्यश्च तमोनाम्ना तथा स्थिताः॥१५६॥ नीलाख्यश्च महानीलो निरयो मघवाक्षितौ। दिक्षु पंकमहापंको हिमनाम्नस्तथा स्थितः॥१५७॥ स्थिताः कालमहाकालरोरवा निरयास्तथा । महारौरवनामा च स्वाप्रतिष्ठानदिक्षु ते ॥ १५८ ॥ नवतिश्च सहस्राणि त्रिशती च प्रकीर्णकाः। लक्षाश्चैव व्यशीतिःस्युश्चत्वारिंशच्च सप्तभिः ॥१५९ ।। सहस्राणि नव श्रेणी-गतानां षट्शतींद्रकैः । त्रिभिः पंचाशता लक्षा अशीतिश्चतुरुत्तरा॥१६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org