________________
हरिवंशपुराणं।
चतुर्थः सर्गः । तेषु संख्येयविस्ताराः षट्लक्षाः प्रथमक्षितौ । संत्यसंख्येयविस्ताराश्चतुर्विंशतिरेव ताः ॥१६१॥ संति संख्येयविस्ताराः पंचलक्षास्तु विंशतिः। ततोऽसंख्येयविस्तारानरकौघा ह्यधःक्षितौ॥१६२॥ लक्षास्तिस्रस्तृतीयायां ख्याताः संख्येययोजनाः। असंख्येयास्तु विस्तारा लक्षा द्वादश तु क्षितौ।। लक्षद्वयं चतुर्थी तु नारकाणां क्षितौ ततः। संख्येययोजनानां स्यादन्येषामष्ट लक्षिताः॥१६४।। अधःषष्टिसहस्राणि संख्येया ध्वनितान्यतः । चत्वारिंशतसहस्राणि द्विलक्षाण्यपराण्यपि ॥१६५।। एकोनविंशतिः षष्ट्यां सहस्राणि नवोत्तरा । नवतिर्नवशत्यामा संख्येया ध्वनितानि तु ॥१६६।। सप्ततिश्च सहस्राणि नवासंख्येययोजनाः । शतानि नारकावासा नवषण्णवतिस्त्विह ॥ १६७ ॥ एकं संख्येयविस्तारं सप्तम्यां नरकं मतं । ततोऽसंख्येयविस्तारं नरकाणां चतुष्टयं ॥ १६८ ॥ तत्र संख्येयविस्तारा इंद्रकाः सर्व एव ते । श्रेणीबद्धास्त्वसंख्येयविस्तारा नरकालयाः ॥१६९।। केचित्संख्येयविस्ताराः सर्वभूमिप्रकीर्णकाः। केऽप्यसंख्येयविस्तारा इत्थं ते तूभयात्मकाः१७०॥ सीमंतकस्य विस्तारो योजनानां मतं ततः । विद्वद्भिः प्रमितो लक्षात्वारिंशच पंच च॥१७॥ चत्वारिंशचतस्रच लक्षाः साष्टसहानिकाः । त्रिशती च त्रयस्त्रिंशत् सव्यंशो नारकस्य सः॥१७२।। त्रिचत्वारिंशदिष्टास्ताः सहस्राणि च षोडश । षट्शतानि च षट्पष्टिद्वौं त्र्यंशी रौरवस्य च ॥१७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org