SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराण । चतुर्थः सर्गः। अष्टाविंशं शतं दिक्षु चतुर्विंशं विदिक्षु तत् । घाटस्यापि समस्तं तत् द्वापंचाशं शतद्वयं ॥१०९।। चतुर्विंशं शतं दिक्षु विंशमेव विदिक्षु तत् । संघाटस्य चतुर्युक्तं चत्वारिंशं शतद्वयं ॥ ११०॥ दिक्षु विशं शतं ज्ञेयं षोडशाग्रं विदिक्षु तत् । जिहाख्यस्य समस्तं तत् षट्त्रिंशं हि शतद्वयं।।१११।। षोडशाग्रं शतं दिक्षु द्वादशाग्रं विदिक्षु तत् । जिहाख्यस्य युक्तं स्यादष्टाविंशं शतद्वयं ॥११२॥ द्वादशाग्रं शतं दिक्षु विदिश्वष्टोत्तरं शतं । लोलस्यापि समस्तं तत् विंशत्यग्रं शतद्वयं ॥११३॥ अष्टोत्तरशतं दिक्षु विदिक्षु चतुरुत्तरं । लोलुपस्य समस्तं तत् द्वादाशाग्रं शतद्वयं ॥ ११४ ॥ चतुर्भिश्च शतं दिक्षु विदिक्षु शतमायतं । तत्तनुलोलुपाख्यस्य चतुर्युक्तं शतद्वयं ।। ११५ ॥ श्रीणबद्धानि चैतानि द्वे सहस्रे च षट्शती । नवतिः पंचभिर्युक्ता भवंति नरकानि तु ॥११६॥ चतुर्विंशतिलक्षाश्च नवतिः सप्तभिस्त्विह । सहस्रगुणिताः पंच त्रिशती च प्रकीर्णकाः ॥११७॥ तप्तस्यापि शतं दिक्षु नरकाणां विदिक्षु तत् । मता षण्णवतियुक्तं शतं पण्णवतं तु तत् ॥११८॥ दिक्षु षण्णवतिाभ्यां विदिक्षु नवतियुता । तपितस्य न तद् युक्तमष्टाशीतं शतं मतं ॥ ११९ ।। दिक्षु द्वानवतिः सा स्यादष्टाशीतिर्विदिक्षु तत् । तपनस्य तु तद्युक्तमशीत्या सहितं शतं ॥१२०॥ अष्टाशीतिर्महादिक्षु विदिक्षु चतुरुत्तरा । अशीतिस्तापनस्यैतत् द्वासप्तत्या शतं युतं ॥ १२१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy