SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ४८ चतुर्थः सर्गः । साष्टषष्टिशतं दिक्षु चतुःषष्ट्या विदिक्षु तत् । द्वात्रिंशं तद्द्वयं युक्तं विभ्रांतस्य शतत्रयं ॥ ९६ ॥ चतुःषष्ट्या शतं दिक्षु शतं षष्ट्या विदिक्षु च । त्रस्तस्य तद्वयं मिश्रं चतुर्विंशं शतत्रयं ॥९७॥ शतं षष्ट्यधिकं दिक्षु षट्पंचाशं विदिक्षु तत् । त्रसितस्य समायुक्तं षोडशाग्रं शतत्रयं ॥ ९८ ॥ षट्पंचाशं शतं दिक्षु द्वापंचाशं विदिक्षु तत् । वक्रांतस्य समायुक्तमष्टोत्तरशतत्रयं ॥ ९९ ॥ द्विपंचाशं शतं दिक्षु चत्वारिंशं सहाष्टभिः । विदिक्षु मिश्रितं तत्स्यादवक्रांते शतत्रयं ॥ १०० ॥ चत्वारिंशं शतं दिक्षु विक्रांतस्य सहाष्टभिः । चत्वारिंशं चतुर्भिस्तद् विदिक्षु परकीर्त्तितं ॥ १०१ ॥ द्वयं तच्च समायुक्तं द्वयं द्वानवतं शतं । इंद्रके नरकाणां स्यात् परिवारस्त्रयोदशे ।। १०२ ।। श्रेणिबद्धान्यमूनि स्युः सहस्राणद्रकैः सह । त्रयस्त्रिंशच्चतुःशत्या चत्वारि समुदायतः ।। १०३ ॥ ये क्षात्रिंशदेकोना नवतिः पंच पंचभिः । सहस्राणि शतैस्तेऽपि सप्तषष्ट्या प्रकीर्णकाः ॥ १०४ ॥ चत्वारिंशं शतं दिक्षु चतुर्भिस्तरकस्य तत् । विदिक्षु चतुरूनं द्वे अशीत्या चतुरंतया ।। १०५ ।। चत्वारिंशं शतं दिक्षु षट्त्रिंशं तु विदिक्षु तत् । स्तनकस्य समस्तं तत् षट्सप्तत्या शतद्वयं ॥ १०६ ॥ षट्त्रिंशं हि शतं दिक्षु द्वात्रिंशं तु विदिक्षु तत् । मनकस्य समस्तं तत् साष्टषष्टि शतद्वयं ॥ १०७॥ द्वात्रिंशं हि शतं दिक्षु त्वष्टाविंशं विदिक्षु तत् । वनकस्य समस्तं तत् षष्ठ्या युक्तं शतद्वयं ॥ १०८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy