SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ - हरिवंशपुराणं। चातुर्थाः समः। तमो भ्रमो झषोंऽतश्च तमिश्रश्चेत्यमी स्मृताः । इंद्रका नगराकाराः पंचम्यां पंच संहिताः ॥८३॥ हिमवदेललल्लकास्त्रयः षष्ठयामपींद्रकाः । सप्तम्यामप्रतिष्ठानमेकमेवेंद्रकं विदुः॥८४॥ ज्ञेया ह्येकोनपंचाशदिंद्रकाः संयुतास्त्वमी । अधोऽधो न्यूनका द्वाभ्यामुपर्युपरि वृद्धयः ॥ ८५॥ सीमंतके चतुर्दिा प्रत्येकं नारकालयाः । तिष्ठत्येकोनपंशाशत् श्रेणिबद्धा महांतराः ॥ ८६ ॥ तावंत एव चकोनाः श्रेणिबद्धाः विदिक्षु च । प्रत्येकं बहवस्तेभ्यस्ताभ्योऽन्यत्र प्रकीर्णकाः।।८७।। एकैको हीयते चाधः सीमंतनरकादिषु । चतुःशेषोऽप्रतिष्ठानो न श्रेणी न प्रकीर्णकाः ॥८८॥ शतं षण्णवतं दिक्षु चतुरूनं विदिक्षु तत् । सीमंतकस्य तन्मिश्रमष्टाशीतं शतत्रयं ।। ८९ ॥ शतं द्वानवतं दिक्षु साष्टाशीति विदिक्षु तत् । कुंडानां नरकस्यैतद् युक्त्वाशीत्या शतत्रयं ॥१०॥ अष्टाशीतं शतं दिक्षु चतुरूनं विदिक्षु तत् । रोरुकस्य विमिश्रं तद् द्वासप्तत्या शतत्रयं ॥९१॥ शतं चतुरशीतिश्च भ्रांते दिक्षु विदिक्षु तत् । साशीति नारकं मिश्रं चतुःषष्टया शतत्रयं ॥१२॥ साशीतिक शतं दिक्षु षट्सप्तत्या विदिक्षु तत् । षट्पंचाशद्विमिश्रं स्यादुद्धांतस्य शतत्रयं ।। ९३ ॥ षट्सप्तत्या शतं दिक्षु द्वासप्तत्या विदिक्षु तत् । द्वयूनपंचाशता मिश्रं संभ्रांतस्य शतत्रयं ॥९४॥ द्वासप्तत्या शतं दिक्षु साष्टषष्टया विदिक्षु तत् । असंभ्रांतस्य मिश्रं तच्चत्वारिंशं शतत्रयं ॥९५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy