________________
हरिवंशपुराणं।
चतुर्थः सर्गः। मवंत्यबहुले भागे धर्मायां नारकाश्रयाः । योजनानां सहस्रं तु मुक्त्वोर्धाधोविभागयोः ॥७१॥ अयमेव क्रमो ज्ञेयः शेषास्वपि च भूमिषु । सप्तम्यां मध्यदेशेऽमी सत्रिंशे क्रोशपंचके ॥ ७२ ।। लक्षा नरकभेदानां स्युस्त्रिंशत्पंचविंशतिः । तासु पंचदशैवैता दश तिस्रस्तथैव च ॥७३॥ पंचोनापि च लक्षका पंच चैव यथाक्रमं । लक्षाश्चतुरशीतिः स्युस्तेषां संग्रहसंख्यया ।। ७४ ॥ त्रयोदश यथासंख्यमेकादश नवापि च । सप्त पंच त्रयश्चैकः प्रस्तारास्तासु भूमिषु ॥ ७५ ॥ सीमंतको मतः पूर्वो नरको रौरुकस्ततः । भ्रांतोद्धांतौ च संभ्रांतः परोऽसंभ्रांत एव च ।। ७६ ॥ विभ्रांतश्च तथा त्रस्तो धर्मायां त्रसितः परः । वक्रांतश्चाप्यवक्रांतो विक्रांतश्चेद्रकाः स्मृताः ॥७७॥ स्तरकः स्तनकश्चैव मनको वनकस्तथा । घाटसंघाटनामानौ जिहाख्यो जिहकाभिधः ॥ ७८ ॥ लोलश्च लोलुपश्चापि तथाऽन्यस्तनलोलुपः । वंशायामिंद्रका ह्येते जिनरेकादशोदिताः॥ ७९ ॥ तप्तश्च तपितश्चान्यस्तपनस्तापनः परः । पंचमश्च निदाघाख्यः षष्ठः प्रज्वलितो मतः ॥ ८० ॥ तथैवोज्ज्वलितो ज्ञेयस्ततः संज्वलितोऽष्टमः । संप्रज्वलित इत्यन्यस्तृतीयायां नवेंद्रकाः ॥८१॥ आरस्तारश्च मारश्च वर्चस्कस्तमकस्तथा । खडः खडखडश्चेति चतुर्थी सप्त वर्णिताः ॥ ८२॥
१ खडरव इति ग पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org