________________
हरिवंशपुराणं ।
चतुर्थः सर्गः। योजनानां सहस्राणि षण्णामपि यथाक्रमं । पृथिवीनां विनिर्दिष्टं दृष्टतत्त्वैर्जिनेश्वरैः ।। ५८ ॥ दशानामसुरादीनां प्रथमायां च सद्मनां । संख्या सा प्रतिपत्तव्या परिपाटया व्यवस्थिता॥५९॥ चतुःषष्टिः स्मृता लक्षा अशीतिश्चतुरुत्तरा । द्वासप्ततिस्तथा लक्षाः षण्णां षट्सप्ततिस्ततः॥६०॥ भवनानां तथा लक्षा नवतिश्च षडुत्तरा । चैत्यालयाश्च विज्ञेयाः प्रत्येकं समसंख्यया ॥६१ ॥ चतुर्दश सहस्राणि पोडशापि यथाक्रमं । भूतानां राक्षसानां च संति समान्यधो भुवः ।। ६२ ॥ असुरा नागनामानः सुपर्णतनयामराः । द्वीपोदधिकुमाराश्च तथैव स्तनितामराः ॥ ६३ ॥ विद्युत्कुमारनामानो दिक्कुमारास्तथाऽपरे । देवा अग्निकुमाराश्च कुमारा वायुपूर्वकाः ॥ ६४ ॥ मणिधुमाणिनित्याभे पाताले निवसंति ते । यथायथं निवासेषु देवा भवनवासिनः ।। ६५ ॥ असुराणां च तत्रायुः साधिकः सागरः स्मृतः । तथा नागकुमाराणां ज्ञेयं पल्योपमत्रयं ॥६६॥ तत् सुपणेकुमाराणां साधे पल्योपमद्वयं । द्वयं द्वीपकुमाराणां शेषाणां पल्यमद्धेभाक् ॥ ६७ ॥ असुराणां धनूंषि स्यादुत्सेधः पंचविंशतिः । भौमैर्दशैव शेषाणां ज्योतिषां सप्त तत्त्वतः ॥६८॥ सौधर्मेशानयोर्देवाः सप्तहस्ताच्छ्यास्ततः । एकाईहानौ सर्वार्थसिद्धौ हस्तोऽवशिष्यते ॥ ६९ ॥ अतः परं प्रवक्ष्यामि शृणु श्रेणिक ! लेशतः । सप्तानामपि भूमीनां क्रमेण नरकालयान् ॥७०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org