SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । चतुर्थः सर्गः । महातमः प्रभा भूमिः सप्तमी च घनोदधौ । वलयाधिष्ठिताः ह्येताः सप्ताधोऽधो व्यवस्थिताः ॥४५॥ गोत्राख्यया तु ताः ख्याता घर्मा वंशा यथाक्रमं । मेघांजनाप्यरिष्टा च मघवी माघवीति च ॥ ४६ ॥ लक्षैका योजनानां स्यात् सहाशीतिसहस्रिका | त्रिभिर्भागैर्विभक्तं च बाहुल्यं प्रथमक्षितेः॥४७॥ योजनानां सहस्राणि खरभागेऽत्र षोडश । अशीतिः पंकवहुले चतुर्भिरधिकानि तु ॥ ४८ ॥ तथैवाब्बले भागे बाहुल्यं सुविनिश्चितं । शास्त्रेऽशीतिसहस्राणि योजनानि जिनेशिनां ॥ ४९ ॥ तं पंकबहुलं भागं भासयंति यथायथं । रक्षसामसुराणां च निवासा रत्नभासुराः || ५० ।। खरभागं नवानां तु वासा भवनवासिनां । भूषयंति महाभासा बहुभेदाः स्वयंप्रभाः ॥ ५१ ॥ चित्राख्यं पटलं पूर्वं वज्राख्यं तु ततः परं । वैडूर्याख्यं ततो ज्ञेयं लोहितांकाख्यमप्यतः ॥ ५२॥ मसारगल्वगोमेदप्रवालपटलान्यतः । द्योती रसांजनाख्ये च तथैवांजनमूलकं ।। ५३ ।। अंगस्फटिकसंज्ञे च चंद्रभाख्यं च वर्चकं । बहुशिलामयं चेति पटलानि हि षोडश || ५४ ॥ एकैकस्य तु बाहुल्यं सहस्रगुणयोजनं । पटलस्य तदात्मासौ खरभागः प्रभासुरः ।। ५५ ।। विज्ञेयाः पंकबहुलाच्छेषाः षडपि भूमयः । स्वस्वबाहुल्यहीनै करज्ज्वायामनिजांतराः ॥ ५६ ॥ द्वात्रिंदशथ बाहुल्यमष्टाविंशतिरेव च । चतुर्विंशतिरप्यासां विंशतिः षोडशाष्ट च ॥ ५७ ॥ Jain Education International ४४ For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy