________________
हरिवंशपुराणं ।
चतुर्थः सर्गः। स्वोदरस्थितनिःशेषपुरुषादिपदार्थकः । अपौरुषेय एवैष सल्लोकपुरुषः स्थितः ॥ ३२ ॥ घनोदधिरिमं लोकं धनवातश्च सर्वतः । तनुवातश्च तिष्ठति त्रयोऽप्यावेष्टय वायवः ॥ ३३ ॥ आद्यो गोमूत्रवर्णोऽत्र मुद्गवर्णस्तु मध्यमः । संपृक्तानेकवर्णोऽत्यो बहिर्वलयमारुतः ॥ ३४ ॥ दंडकारा घनीभूता ऊोधोभागभागिनः । भंगुराकृतयो लोकपर्यतेषु प्रभंजनाः ॥ ३५ ॥ योजनानां सहस्राणि प्रत्येकं विंशतिः स्मृताः। अधोविस्तारतस्तूर्ध्व त्रयोऽप्यूनैकयोजनाः ॥३६॥ दंडाकारपरित्यागे यथाक्रमममी पुनः । सप्तपंचचतुःसंख्या योजनानि वितन्वते ॥ ३७॥ प्रदेशहानितः पंच चत्वारि त्रीणि च क्रमात् । बाहुल्यं योजनान्येषां तिर्यग्लोके भवत्यतः ॥३८॥ प्रदेशवृद्धितः सप्त पंच चत्वारि च क्रमात् । योजनान्युपचीयंते ब्रह्मब्रह्मोत्तरांतिके ।। ३९ ॥ पुनः प्रदेशहान्यैवं पंच चत्वारि च क्रमात् । त्रीणि चैव भवंत्येषां योजनानि शिवांतक ॥४०॥ अर्धयोजनबाहुल्यो मस्तकेषु घनोदधिः । धनवातस्तदर्धः स्यात्तनुवातस्तदूनकः ॥ ४१ ।। भ्राजते वातवलयैः सर्वतस्विभिरावृतः । कवचैरिव लोकस्तैमेहालोकजिगीषया ॥ ४२ ॥ अत्र रत्नप्रभाद्ययं द्वितीया शकेराप्रभा । प्रथिता पृथिवी लोके तृतीया बालुकाप्रभा ॥ ४३ ॥ पंकप्रभा चतुर्थी तु पंचमी पृथिवी तथा । धूमप्रभा विनिर्दिष्टा षष्ठी चापि तमःप्रभा ॥४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org