________________
हरिवंशपुराणं।
चतुर्थः सर्गः। चतस्रस्तुर्यरज्ज्वंते सप्तभागैस्विभिर्युताः । पंच पंचमरज्ज्वंते सप्तभागद्वयेन ताः ॥ १९ ॥ षडेताः सप्तभागेन षष्ठरज्ज्वंतगोचरे । सप्त सप्तमरज्ज्वंते विस्तारो रज्जवः स्मृताः ॥ २० ॥ ऊर्ध्वं च साधेरज्ज्वंते रज्जू द्वे सप्तभागकैः। पंचभिः सह विस्तारो लोकस्य परिकीर्तितः॥२१॥ परतः सार्धरज्ज्वंते सप्तभागैस्त्रिभिर्युताः । चतस्रो रज्जवो ज्ञेयो विस्तारो जगतस्ततः ॥ २२ ॥ ततोऽधरज्जुपर्यते सब्रह्मोत्तरमूर्धनि । विस्तारो रजवः पंचभुवनस्य निरूपितः ॥ २३ ॥ कापिष्टाग्रेऽधरज्ज्वंते सप्तभागेत्रिभिः सह । चतस्रो रज्जवो व्यासो जगतः प्रतिपादितः ॥२४॥ ततोऽधरज्जुमानांते महाशुक्राग्रवर्तिनि । षट् सप्तभागसंयुक्तास्तिस्रो व्यासो जगद्गतः ॥ २५ ॥ अर्धरज्ववसानेऽतः सहस्रारांतमिश्रिते । द्विसप्तभागसंयुक्ता व्यासस्तिस्रोऽस्य रज्जवः ॥ २६ ॥ प्राणतागाधरज्ज्वंते पंचसप्तांशमिश्रिते । द्वे रज्जू जगतो व्यासो व्यासविद्भिः प्रकाशितः ॥ २७॥ अच्युतांतार्धरज्ज्वंते सप्तभागेन सम्मिते । द्वे रज्जू रज्जुरेवांतरज्ज्वंते लोकमस्तके ॥ २८ ॥ अधोलोकोरुजंघादिस्तिर्यग्लोककटीतटः । ब्रह्मब्रह्मोत्तरोरस्को माहेंद्रांतस्तु मध्यभाग् ॥ २९ ॥ आरणाच्युतसुस्कंधो द्विपर्यंतमहाभुजः । नवग्रैवेयकग्रीवोऽनुदिशोद्धहनुद्वयः ।। ३०॥ पंचानुचरसद्वक्त्रः सिद्धक्षेत्रललाटभृत् । सिद्धजीवश्रिताकाशदेशविस्तीर्णमस्तकः ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org