________________
हरिवंशपुराणं ।
४१
चतुर्थः सर्गः । वेत्रासन मृदंगोरुझल्लरीसदृशाकृतिः । अधवोर्ध्व च तिर्यक् च यथायोगमिति त्रिधा ॥ ६ ॥ मुरजार्धमधोभागे तस्योर्ध्वे मुरजो यथा । आकारस्तस्य लोकस्य किं त्वेष चतुरस्रकः ॥ ७ ॥ कटिस्थकरयुग्मस्य वैशाखस्थानवर्तिनः । विभर्त्ति पुरुषस्यायं संस्थानमचलस्थितेः ॥ ८ ॥ अधोलोकस्य सप्ताधः स्वविस्तारेण रज्जवः । प्रदेशहानितो रज्जुस्तिर्यग्लोकेऽवशिष्यते ॥ ९ ॥ ऊर्ध्वं प्रदेशवृद्ध्यातः पंच ब्रह्मोत्तरांतरे । ततः प्रदेशहान्योर्ध्वं रज्जुरेकावशिष्यते || १० आयामस्तु त्रिलोकानां स्याच्चतुर्दशरज्जवः । सप्ताधो मंदरादूर्ध्व सार्द्धं तेनैव सप्त ताः ॥ ११ ॥ चित्राधोभागतो रज्जुर्द्वितीयांते समाप्यते । द्वितीयातस्तृतीयांते चतुर्थ्यते ततोऽपरा ।। १२ ।। पंचम्यंते चतुर्थी च षष्ठयंते पंचमी ततः । सप्तम्यंते च षष्ठी सा लोकांते सप्तमी स्थिता ||१३|| चित्राघोदेश तस्तूर्ध्वं साध रज्जुः समाप्यते । ऐशानांते ततः सार्द्धा महेंद्रांते तु तिष्ठति ||१४|| ततः कापिष्टकल्पाग्रे रज्जुरेकावतिष्ठते । सा सहस्रारकल्पाग्रे ततोऽप्येका समाप्यते ॥। १५ ।। आरणाच्युतकल्पांतवर्तिनी सा ततोऽपरा । सप्तमी तु ततो रज्जुरूर्ध्व लोकांतनिष्ठिता ॥ १६ ॥ रज्जुः प्रथमरज्ज्वंते सा षड्भिः सप्तभागकैः । अधोलोकस्य विस्तारो लोकविद्भिरुदाहृतः।। १७ ।। रज्जू द्वितीयरज्यंते पंचभिः सप्तभागकैः । तिस्रस्तृतीयरज्ज्वंते चतुर्भिः सप्तभागकैः ॥ १८ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org