SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । चतुर्थः सर्गः। जगाद गोतमः स्थाने राजन् ! प्रश्नस्त्वया कृतः । शृणु सर्व यथावत्ते कथयामि यथायथं।।१९६॥ त्रैलोक्यस्य सुखासुखानुभवनाधिष्ठानभूमेः स्थिर संस्थानं प्रथमं तथैव विविधान् वंशावतारांस्तव ॥ श्रव्यार्थ हरिवंशसंभवमतस्तद्वंशजान् भूपतीन् श्रीमच्छेणिक ! कीर्तयामि भवते शुश्रूषवे श्रूयतां१९७ भव्यत्वादिप्रकृष्टेष्वपिचतनुभृतोदेशकालस्वभावैर्भावेष्वाप्तोपदेशाद्विदधतिविधिवन्निश्चयंनिश्चितार्थ सदृष्टानां हि मोहःप्रभवतिभुवने तावदेवार्थदृष्टौ यावन्नात्राभ्युदेतिप्रथितजिनरविर्ज्ञानभास्वन्मरीचिः इति “ अरिष्टनेमि पुराणसंग्रहे हरिवंशे " जिनसेनाचार्यकृतौ श्रेणिकप्रश्नवर्णनो नाम तृतीयः सर्गः ॥ ३॥ चतुर्थः सर्गः। सर्वतोऽनंतविस्तारमनंतस्वप्रदेशकं । द्रव्यांतरविनिर्मुक्तमलोकाकाशमिष्यते ॥१॥ न लोक्यते यतस्तस्मिन् जीवाजीवात्मकाःपरे । भावास्ततस्तदुद्गीतमलोकाकाशसंज्ञया ॥२॥ न गतिर्न स्थितिस्तत्र जीवपुद्गलयोस्तयोः । निमित्तयारभूतत्वात् धर्माधर्मास्तिकाययोः॥३॥ अनाद्यनिधनस्तस्य मध्ये लोको व्यवस्थितः। असंख्येयप्रदेशात्मा लोकाकाशविमिश्रितः॥४॥ कालः पंचास्तिकायाश्च सप्रपंचा इहाखिलाः । लोक्यते येन तेनायं लोक इत्यभिलप्यते ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy