________________
हरिवंशपुराण ।
तृतीयः सर्गः । तं निशम्य मुनिश्रेष्ठं पूज्यमानं सुरेश्वरैः । श्रेणिको गौतमं नत्वा पप्रच्छ बहुविस्मयः ॥ १८३ ॥ भगवन् ! ब्रूहि किंनामा मुनिः सुरगणैरयं । पूज्यते पूज्य ! किंवंशःप्राप्तो वाऽद्य किमद्भुतं ।। १८४ ॥ गदतिस्म ततस्तस्मै विस्मिताय गतस्मयाः। आगमानुमितिज्ञाप्यविज्ञेयः श्रुतकेवली ॥१८५॥ श्रीमतोऽस्य महाराज! श्रृणु श्रेणिक सन्मतेः। मुनर्नाम च वंशं च माहात्म्यं च वदामि ते ॥ १८६॥ जितशत्रुः क्षितौ ख्यातो धरित्रीपतिरत्र यः। प्राप्त एव धरित्रीश! भवतः श्रोत्रगोचरं ॥१८७ ॥ हरिवंशनभोभानुरभिभूतनृपस्थितिः । राज्यश्रियं परित्यज्य प्राब्राजीजिनसंनिधौ ॥ १८८ ॥ तपो दुष्करमन्येषां बाह्यमाध्यात्मिकं च सः। कृत्वा प्राप्तोऽद्य धात्यंते केवलज्ञानमद्भुतं ॥१८९।। तेनायममरैः सर्वैर्जनमार्गोपवंहकैः । स पुनर्बोधिलाभार्थ भक्तितोऽत्यचितो यतिः ॥ १९ ॥ पुनः प्रणम्य भक्त्याऽसौ समुद्भूतकुतूहलः । पृच्छति स्म गणाधीशमिति श्रेणिकभूपतिः ॥१९१॥ क एष भगवान् ! वंशो हरिशब्दोपलक्षितः। जात:कदा कवा कीर्त्यः को वास्य प्रभवःपुमान्१९२ कियंतः समतिकांताः प्रजारक्षणदक्षिणाः । धर्मार्थकाममोक्षाढया हरिवंशक्षितीश्वराः ॥ १९३ ।। इह भारतजातानां जिनानां चक्रवर्तिनां । हलिनां वासुदेवानां तथा चेषां प्रतिद्विषां ॥ १९४ ॥ शृणोमि चरितं सर्व वंशानां च समुद्भवं । लोकालोकविभागोक्तिपूर्वकं वक्तुमर्हसि ॥ १९५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org