SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ३८ तृतीयः सर्गः । मुक्तिमूल्य महानर्घ्यरत्नस्यायत्नसाधनं । ध्यानस्वाधीन सर्वार्थं भुक्वा ते वैबुधं सुखं ।। १७० ।। दिवश्च्युता विदेहेषु भरतैरावतेषु वा । कर्मभूमिविभागेषु भवंति पुरुषोत्तमाः ॥ १७१ ॥ षट्खण्डप्रभवः केचिन्निधिरत्नोपलक्षिताः । सिद्धिसौख्यानुसंधानसमर्थचरमक्रियाः ॥ १७२ ॥ केचिद्वित्रिभवाश्चान्ये बलाः स्वर्गापवर्गणः । निदानिनस्तु तत्रान्ये केशवप्रतिशत्रवः ॥ १७३ ॥ केच्चित पूर्वभवाभ्यस्त शुभषोडशकारणाः । कीर्त्यास्तीर्थकृतो भूत्वा प्रभवंति जगत्त्रये ॥ १७४ ॥ सम्यक्व स्थिरमूलस्य ज्ञानकांडधृतात्मनः । चारित्रस्कंधबंधस्य नयशाखापशाखिनः ।। १७५ ।। नृसुरश्रीप्रसूनस्य जिनशासनशाखिनः । सेवितस्य लभतेऽग्रे ते निर्वाणमहाफलं ॥ युग्मं ॥ १७६ ॥ परमानंदरूपं ते निर्वाणबलसंभवं । सारसौख्यरसं प्राप्ताः सिद्धाः तिष्ठति निर्वृताः ।। १७७ ॥ इत्थमाकर्ण्य सा धर्मं भुवनत्रयपद्मिनी । मोक्षमार्गार्कसंपर्कात् चकासेति प्रमोदिनी ॥ १७८ ॥ प्राक् प्रशस्तानुरागाढचा धर्मश्रवणतो दधुः । लोकत्रयोऽग्निशुद्धाच्छरत्न जातिचयश्रियं ।। १७९ ॥ सद्धर्मदेशना जैनी जगत्त्रयतनूभृतां । भ्रांतिशेषरजाशेषमभ्रालीवाभ्यशीशमत् ।। १८० । अथ दिव्यध्वनेरंते जैनस्य तदनंतरं । चक्रुस्तदनुसंधानं देवा दुदुभिनिःस्वनाः || १८१ ॥ पृष्पबुष्टि प्रवर्षतो रत्नवृष्टिं च तुष्टुवुः । देवास्तत्र वनोद्देशे हुकं महामुनिं ।। १८२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy