________________
हरिवंशपुराणं ।
३७
तृतीयः सर्गः ।
नवस्वनुदिशेषु स्याद् द्वात्रिंशत्सागरोपमा । परा स्थितिर्जघन्या स्यादेकत्रिंशत्पयोधयः ।। १५७ ।। त्रयस्त्रिंशदुदन्वंतः परानुत्तरपंचके । सर्वार्थसिद्धितोऽन्यत्र द्वात्रिंशदधरा स्थितिः ।। १५८ ।। पल्यानि पंच सौधर्मे देवीनां परमा स्थितिः । आसहस्रारकल्पात्तु तान्येव द्वद्यधिकानि तु ॥ १५९ ।। ततः सप्तभिराधिक्ये पंच पंचाशदुच्यते । पल्यानि स्वल्पकालास्ताः परतस्तु न योषितः।। १६० ।। उपपादश्च सर्वासां कर्मशक्ति नियोगतः । कल्पवासी सुरस्त्रीणामाद्ये कल्पद्वये सदा ॥ १६१ ॥ ज्योतिषो भावना भौमाः सौधर्मैशानवासिनः । देवाः काय प्रवीचारास्तीत्रमोहोदयत्वतः ॥ १६२ ॥ सानत्कुमार माहेंद्र कल्पद्वयसमुद्भवाः । देवाः स्पर्शपवीचारा मध्य मोहोदयत्वतः ।। १६३ ।। ब्रह्मब्रह्मोत्तरोद्भूताः कांताः लांतवकल्पजाः । देवा रूपप्रवीचाराः कापिष्टप्रभवास्तथा ।। १६४ ।। देवाः शुक्रमहाशुक्रशतारस्थितयस्तथा । सहस्रारोद्भवाः शब्दप्रवीचारा भवत्यमी ।। १६५ ।। आनतप्राणतोद्भूता आरणाच्युतवासिनः । देवा मनःप्रवीचारा मंदमहोदयत्वतः ॥ १६६ ॥ परतस्त्व प्रवीचारा यावत्सर्वार्थसिद्विजाः शमप्रधानशर्माढ्या मोहाव्यक्तोदयत्वतः ।। १६७ ॥ यथा स्थित्या तथा द्युत्या प्रभावेन सुखेन ते । विशुद्धयापि च लेशानामिंद्रियावधिगोचरैः।। १६८ ।। उपर्युपरि सौधर्मात् पूर्वतः पूर्वतोऽधिकाः । अल्पा गतितनूत्सेधैरभिमानपरिग्रहैः ।। १६९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org