________________
हरिवंशपुराणं ।
तृतीयः सर्गः। पूर्वमेवौपशमिकं क्षायोपशमिकं क्रमात् । क्षायिकं तैः समुत्पाद्य सम्यक्त्वमनुभूयते ॥ १४४ ।। तथा चारित्रमोहस्य क्षयोपशमलब्धितः । चारित्रं प्रतिपद्यामी क्षयं कुर्वति कर्मणां ॥ १४५ ।। ततोऽनंतसुखं मोक्षमतज्ञानदर्शनं । अनंतवीर्यमध्यास्य तेऽधितिष्ठंति निर्वताः ॥ १४६ ।।। ये तु चारित्रमोहस्य नितांतबलवत्तया । दर्शनादेव निष्कंपा देवायुष्कस्य बंधकाः ॥ १४७॥ संयतासंयता ये च नराः कल्पेषु तेऽमराः । सौधर्माद्यच्युतांतेषु संभवंति महर्द्धयः ।। १४८ ॥ सरागसंयमश्रेष्ठाः संयता ये तु तेऽनघाः । कल्पे सुरा भवंत्येके कल्पातीतास्तथा परे ।। १४९ ॥ नवग्रैवेयकावासा नवानुदिशवासिनः । कल्पातीतास्तथा ज्ञेयाः पंचानुत्तरवासिनः ॥ १५० ।। इंद्राद्याः कल्पजा देवा अहमिंद्राश्च सत्पथे । सुखं सुविहितस्यामी भुंजते तपसः फलं ॥ १५१।। सौधर्मेशानयोरायुः साधिके सागरोपमे । सानत्कुमारमाहेंद्रकल्पयोः सप्त सागराः ॥ १५२ ।। दशार्णवोपमायुष्का ब्रह्मब्रह्मोत्तरामराः । लांतवेऽपि च कापिष्टे स्युचतुर्दश सागराः ॥ १५३ ॥ आयुः शुक्रमहाशुक्रकल्पयोः षोडशाब्धयः । शतारे च सहस्रारे तथाऽष्टादश सागराः ॥१५४।। विंशत्यब्धिसमायुष्का आनतप्राणतामराः । आरणाच्युतयोर्देवा द्वाविंशत्यब्धिजीविनः ॥१५५।। एकोत्तरा तु वृद्धिः स्यान्नवग्रैवेयकेष्वियं । उत्कृष्टस्थितिरेषो साधिका त्वपरा स्थितिः॥१५६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org