________________
हरिवंशपुराणं ।
तृतीयः सर्गः । तदेव जायतेऽन्येषां दीर्घसंसारकारणं । सुदरमव्यसत्त्वानां नरत्वं मुग्धचेतसां ॥ १३१॥ कर्मभूमिषु सर्वासु भोगभूमिषु च स्थिती । तिरश्वामिव निश्चये नृस्थिती च परावरे ॥ १३२॥ अब्भक्षा वायुभक्षाश्च मूलपत्रफलाशिनः । उपशांतधियोऽभ्यस्तकषायेंद्रियनिग्रहाः ॥ १३३ ॥ तापसा बालतपसः कायक्लेशपरायणाः । अकामनिर्जरायुक्तास्तियंचो बंधरोधिनः ॥ १३४ ॥ भावना व्यंतरा देवा ज्योतिष्काः कल्पवासिनः । अल्प यो हि जायंते ते मिथ्यात्वमलीमसाः ॥ देवाः कंदर्पनामानो नित्यं कंदपेरंजिताः । आभियोग्याः सभाऽयोग्याः क्लिष्टाः किल्विषकादयः॥ ते महर्द्धिकदेवानां दृष्ट्वैश्वर्य महोदयं । देवदुर्गतिदुःखातोः दुःखमश्नंति मानसं ॥ १३७ ॥ सम्यग्दर्शनलाभस्य दुर्लभत्वादभव्यवत । भव्या अपि निमज्जति भवदुःखमहोदधौ ॥ १३८ ॥ भावनानां भवत्यब्धिः साधिकः परमा स्थितिः। भौमानां पल्यमन्या तु दशवर्षसहस्रिका॥१३९॥ ज्योतिषां साधिकं पल्यं पल्याष्टांशोऽवरा परा । स्वर्गिणां सागराः पल्यं साधिकं ह्यपरा स्थितिः१४० भव्यसत्त्वैर्यदा कैश्चित् लभ्यते पंच लब्धयः । क्षयोपशमसंशुद्धिक्रियाप्रायोग्यदेशनाः ॥ १४१ ॥ अधःप्रवृत्तकरणमपूर्वकरणं तदा । तथाऽनिवृत्तिकरणं विधाय करणं त्रिधा ॥ १४२ ॥ ततो दर्शनमोहस्य विधायोपशमं ततः । क्षयोपशमभावं च क्षयं चात्मविशुद्धितः ॥ १४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org