SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । तृतीयः सर्गः। पूर्वात्पूर्वादधोऽधः स्यात् जघन्या समयाधिका । दशवर्षसहस्राणि प्रथमायां क्षितौ स्थितिः॥११८॥ क्रोधमानमहामायालोभचिंतावशीकृताः । आर्तध्यानमहावर्तसततभ्रांतमानसाः ॥ ११९ ।। तिर्यंचो मानुषा देवा नारका वा कुदृष्टयः । तिर्यग्गति प्रपद्यते त्रसस्थावरसंकुलां ॥ १२० ।। पृथिव्यप्कायभेदेषु ते तेजोऽनिलमूर्तिषु । वनस्पतिषु चाश्नंति जन्मदुःखं पुनः पुनः ।। १२१॥ कृम्यादिवींद्रियेष्वेके यूकादित्रींद्रियेष्वपि । चतुरिंद्रिय भेदेषुभ्रमंतिभ्रमरादिषु ॥ १२२ ॥ पंचेंद्रियप्रकारेषु पक्षिमत्स्यमृगादिषु । ते भजते चिरं दुःखं तिर्यग्जन्मनि जंतवः ॥ १२३ ॥ अंतर्मुहूर्त्तकालस्य तिरश्चामधरा स्थितिः। पूर्वकोटीः परा भोगभूमौ पल्योपमत्रयं ॥ १२४ ॥ स्वभावादार्जवोपेताः स्वभावान्मृदवो मताः । स्वभावाद् भद्रशीलाश्च स्वभावात् पापभीरवः १२५ प्रकृत्या मधुमांसादिसावद्याहारवर्जिताः । अर्जयंति सुमानुष्यं कुमानुष्यं कुकर्मभिः ॥ १२६ ॥ पापनिर्जरणात् कैश्चित् तिर्यग्नारकजंतुभिः । प्राप्यते प्रियमानुष्यं देवैश्च शुभकर्मभिः ॥ १२७ ॥ मनुष्यत्वेऽपि जंतूनामार्यम्लेच्छकुलाकुले । दुःखमेवेप्सितालाभाद् विप्रयोगात्प्रियैर्जनैः ॥ १२८ ॥ नापि प्राप्तेप्सितार्थानां संयुक्तानां प्रियैर्जनः । विषयधनदीप्तेच्छापावकानां नृणां सुखं ॥१२९॥ यदेव जायते नृत्वं केषांचिन्मोक्षकारणं । आसन्नमव्यसत्त्वानां दर्शनादिनिषेविणां ॥ १३० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy