________________
हरिवंशपुराणं ।
तृतीयः सर्गः। अनादिरंतवान् भव्यव्यक्तीनां भवसागरः । भव्यसंतानसामान्याचिंतनादंतवर्जितः ॥ १०५॥ अनादिरपि चानंतः संतानाद् व्यक्तितोऽपि च । अभव्यजीवराशीनां भवव्यसनसागरः ॥ १०६॥ भव्याभव्या भवेऽनंता जीवराशिद्वये स्थिताः। मिथ्यात्वाद् भुंजते दुःखं कालद्रव्यवदक्षयाः।१०७॥ द्रव्यपर्यायरूपत्वान्नित्यानित्योभयात्मकाः। मिथ्यात्वासंयमर्योगैः कषायैः कलुषीकृताः॥१०८।। बध्नानाः सततं पाप-कर्म दुर्मोचवंधनं । जंतवः परिवर्तते चतुर्गतिषु दुःखिनः ॥ १०९॥ रौद्रध्यानाविलात्मानो वह्वारभपरिग्रहाः। मिथ्यात्वाष्टमदक्लिष्टा विशिष्टानिष्टदृष्टयः ॥११०॥ स्वप्रशंसापरा निंद्याः परनिंदाभिनंदिनः । परस्वहरणे लुब्धा भोगतृष्णातिरोकिणः ॥ १११ ॥ मधुमांससुराहारा मानुषाः कर्मभूमिजाः । तिर्यचो व्याघ्रसिंहाया बंधका नारकायुषः ॥ ११२ ।। जायते चातिशीतोष्णदह्यमानशरीरिषु । चंडा नरककुंडेषु नारकाः खंडकात्मकाः ॥ ११३ ॥ न तद् द्रव्यं न तत् क्षेत्रं न सा कालकलाऽपि च | स्वभावो यत्र दुःखस्य विश्रामो नरकश्रितां।।११४॥ लाभः साधारणस्तेषामकाले मरणं न यत् । बल्लभं जीवलोकस्य सुलभं चिरजीवितं ॥ ११५ ॥ रत्नप्रभादिषु ज्ञेयं पृथिवीष्वथ सप्तसु । महातम प्रभांतासु प्रमाणमिदमायुषः ।। ११६ ॥ एकत्रयस्ततः सप्त दश सप्तदश क्रमात् । द्वाविंशतिस्त्रयस्त्रिंशत् सागराः परमा स्थितिः ॥११७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org