________________
हरिवंशपुराणं ।
- तृतीयः सर्गः। परस्परविरुद्धात्मसम्यग्मिथ्यादृगंगिनां । सम्यग्मिथ्यादृशामंतः सुखदुःखविमिश्रिताः॥९२॥ सम्यक्त्वं वमतामंतर्भावः सासादनात्मनां । यथा क्षीरघृतोन्मिश्रशर्करोद्वारकारिणां ॥१३॥ सप्तप्रकृतिमिश्रेण मोहेन मतिभेदिना । राज्येनेव विमूढस्य मिथ्यादृष्टेः कुतः सुखं ॥९४॥ पटप्रकृतिना सम्यग्बोधावृतिविधायिना । प्रतीहारात्मनान्येन ज्येष्ठदर्शनरोधिना ॥९५॥ मधुदिग्धोनखड्गामधारामाधुर्यधारिणा । मद्येनेव परेणातिमतिविभ्रमकारिणा ।।९६॥ दृढेन निगडेनेव गतिधारणकारिणा । तथा चित्रकरेणेव विचित्राकारसर्गिणा ।। ९७ ॥ कुलालेनेव चान्येन नीचैरुच्चैनियोगिना । भांडाकरकरेणेव लभ्यविघ्नविधायिना ।। ९८ ॥ कर्मणोऽष्टविधस्येवं भेदेन फलदायिना। मिथ्यादृष्टिगुणस्थाने बाध्यंते जंतवो भवे ॥ ९९॥ स्थानेषु नियमेनोचं त्रयोदशसु भव्यता । जीवानां प्रथमस्थाने भव्यताऽभव्यताद्वयं ॥१०॥ सदृष्टिज्ञानचारित्रप्रतिपत्तिपुरःसराः । मोक्षप्राप्तिक्षमा भव्या अभव्यास्तद्विलक्षणाः ॥ १०१॥ आसन्नभव्यता हेतोरवोग्दशिभिरुह्यते । विशुद्धदर्शनज्ञानचरित्रत्रयलक्षणात् ॥ १०२॥ सदाप्तवचनादेव बोद्धव्या दूरभव्यता । अभव्यता च भूतानामहेतुविषया ततः ॥१०३॥ जीवस्वभावभावोऽयं भव्याभव्यत्वलक्षणः । एकाधारचुटन्माषककंदूकात्ममाषवत् ।।१०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org