________________
हरिवंशपुराणं ।
३१
तृतीयः सर्गः । मोहस्योदयतो जीवः क्षयोपशमतद्वयात् । पारिणामिकभावस्थो गुणस्थानेषु वर्तते ॥ ७९ ॥ मिथ्यादृष्टियथार्थोऽन्यः सासादन इतीरितः । सम्यग्मिथ्यागन्योऽस्ति सम्यग्दृष्टिरसंयतः॥८॥ संयतासंयतोऽन्वर्थस्तत ऊर्ध्वमुदीरितः । प्रमत्तसंयतस्तस्मादप्रमत्तश्च संयतः॥ ८१ ॥ उपशांतकषायाद् प्रागपूर्वकरणादिषु । क्षपकाः सोपशमकास्त्रिषु स्थानेषु वर्णिताः ॥ ८२ ॥ ऊवं क्षीणकषायोऽस्मात् सयोगः केवली प्रभुः । अयोगकेवली चेति गुणस्थानक्रमस्थितिः।।८३॥ नवस्थानेषु निग्रंथाः रूपभेदविवर्जिताः । अध्यात्मकृतनानात्वादुपर्युपरिशुद्धयः ॥ ८४ ॥ संयतासंयतांतेषु गुणस्थानेषु पंचसु । रूपं प्रत्यभिभेदोऽस्ति यथाध्यात्मकृतस्तथा ॥ ८५ ॥ तत्र केवलिनां सौख्यं सयोगानामयोगिनां । लब्धक्षायिकलब्धीनामंनंतं नेंद्रियार्थजं ।। ८६ ॥ कषायप्रशमोद्भूतं कषायक्षयजं तथा । अपूर्वकरणादीनामुभयेषां परं सुखं ॥ ८७ ॥ निनेंद्रियकषायारिविकथाप्रणयात्मकः। प्रमादेरप्रमत्तानां सुखं प्रशमसद्रसं ॥ ८८॥ हिंसानृतपरादत्तग्रहाब्रह्मपरिग्रहात् । निवृत्तानां प्रमत्तानामपि सौख्यं शमात्मकं ।। ८९॥ हिंसादिभ्यो यथाशक्ति देशतो विरतात्मनां । संयतासंयतानां च महातृष्णाजयात् सुखं ॥ ९॥ यद्यप्यविरता तृष्णा हिंसादेरपि देशतः । सत्सम्यग्दृष्टयोऽश्नति तत्त्वश्रद्धानजं सुखं ॥९१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org