SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ३० तृतीयः सर्गः । सद्द्द्द्ग्बोधक्रियेोपायसाधितोषेयसिद्धयः । सिद्धास्तत्र प्रसिद्धात्मसिद्धिक्षेत्रमधिष्ठिताः ॥ ६७ ॥ प्रक्षयात्पंचभेदस्य ज्ञानावरणस्य कर्मणः । दर्शनावरणस्यापि नवभेदस्य भेदनात् ॥ ६८ ॥ सातासात विकल्पस्य वेदनीयस्य नोदनात् । अष्टाविंशतिभेदस्य मोहनीयस्य हानित: ॥ ६९ ॥ चतुर्विधस्य निःशेषलोषणादायुषस्तथा । द्विचत्वारिंशतो नाशान्नाम्नो गोत्रद्वयस्य च ॥ ७० ॥ पंचसंख्यस्य विध्वंसादंतरायस्य कर्मणः । सिद्धानुपेत्य तिष्ठति सिद्धास्त्रैलोक्यमूर्द्धनि ॥ ७१ ॥ सम्यक्त्वपरमानंत केवलज्ञानदर्शनाः । अनंतवीर्यतात्यंत सूक्ष्मत्वगुणलक्षिताः ॥ ७२ ॥ स्वभावगहनाहीनगुणावगाहनान्विताः । अव्यावाधात्मकानंतसुखिनोऽगुरुलाघवाः ॥ ७३ ॥ प्रसिद्धाष्टगुणाः सिद्धा असंख्येयप्रदेशिनः । वर्णादिविंशतेर्नाशादमूर्त्तात्मतया स्थिताः ॥ ७४ ॥ ईषद्नसमाकारा वपुषश्वरमस्य ते । मूषापतितसद्व्योमस्वभावानुविधायिनः ॥ ७५ ॥ मृत्युजन्मजरा निष्टसंयोगेष्ट वियोगजैः । क्षुत्तृष्णाव्याधिजैर्दुः खैरखिलैरखलीकृताः ।। ७६ ।। द्रव्यभावभवक्षेत्र कालभेदप्रपंचितैः । वियुक्ता पंचभिर्मुक्ताः परिवत्तैः सुखात्मकाः ॥ ७७ ॥ असंयतचतुःस्थानात् संयतासंयतस्थितेः । नवधा संयतस्थानादसिद्धस्त्रिविधः स्मृतः ॥ ७८ ॥ १ सिद्धक्षेत्र अधिष्ठिताः, इत्यपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy