SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । तृतीयः सर्गः। अष्टमोऽकंपनाख्यातिरचलो नवमो मतः । मेदार्यो दशमोऽत्यस्तु प्रभासः सर्व एव ते ॥ ४३ ॥ तप्तदीप्तादितपसः सुचतुबुद्धिविक्रियाः । अक्षीणौषधिलब्धीशाः सद्रसर्द्धिबल यः ॥४४॥ पंचानामानुपूर्वेण गणसंख्या गणेशिनां । द्वे सहस्र शतं त्रिंशत् प्रत्येकमृषयः स्मृताः ॥ ४५ ॥ ततः परं द्वयोर्जेयाः पंचविंशा चतु:शती । चतुर्णी षट्शती तेषां पंचविंशा तपोभृतां ।। ४६ ।। तत्र पूर्वधरास्त्रीणि शतानि नवे वैक्रियाः । त्रयोदश शतान्यासन्नवाधिज्ञानचक्षुषः ॥ ४७ ॥ शतानि सप्त कालेन केवलज्ञानलोचनाः । शतानि पंच संख्यातास्तथा विपुलबुद्धयः ॥ ४८ ॥ चतुःशतानि जेतारो वादिनः परवादिनां । शिक्षका नव विज्ञेयाः सहस्राणि शतानि च ॥४९॥ सैकादशगणाधीशश्चतुर्दशसहस्रकः । ऋषिसंघो जिनस्याभात् सनद्योघ इवांबुधिः ॥ ५० ॥ युक्तः प्राप जिनो जेन्या जगद्विस्मयनीयया । लक्ष्म्या लक्ष्मीगृहं राजद्गृहं राजगृहं पुरं ॥५१॥ पंचशैलपुरं पूतं मुनिसुव्रतजन्मना ! यत्परध्वजिनीदुर्ग पंचशैलपरिष्कृतं ॥ ५२ ॥ ऋषिपूर्वो गिरिस्तत्र चतुरस्रः सनिझरः । दिग्गजेंद्र इवेंद्रस्य ककुभं भूषयत्यलं ॥ ५३ ।। वैभारो दक्षिणामाशां त्रिकोणाकृतिराश्रितः । दक्षिणापरदिग्मध्यं विपुलश्च तदाकृतिः ॥ ५४॥ १ शिष्यसंख्या। २-९०० । ३-९९०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy