________________
हरिवंशपुराणं ।
- तृतीयः सर्गः । इति देवकृतैर्भूमौ चतुर्दशभिरद्भुतैः । विजहार जिनो युक्तः सध्वजैरष्टमंगलैः ॥ ३० ॥ अशोकनगमाभासीदशोकानोकहाश्रिया । नमद्भुवनमाकाशं महत्त्वं किमतः परं ॥ ३१ ॥ पुष्पवृष्टिभिरानम्रशिरोभिरमरैः करैः । आवर्जिताभिराकाशादाशा विश्वंभरा वभुः ॥ ३२ ॥ चतुर्दिक्षु चतुःषष्टिचमैररमरैर्जिनः । वीजितोऽभात् पतगांगतरंगैर्हिमवानिव ॥ ३३ ॥ अभिभूयाबभौ धाम्ना मंडलं चंडरोचिषः । प्रभामंडलमीशस्य प्रध्वस्ताहर्निशांतरं ॥ ३४ ॥ धीरमध्वनि देवानां जज़ंभे दुंदुभिध्वनिः । कर्मशत्रुजयं जैनं घोषयन्निव विष्टपे ॥ ३५ ॥ एकातपत्रमैश्वर्य भुवि भुक्तवतोऽहंतः । आतपत्रत्रयैश्वर्यमाबभौ भुवनत्रये ॥३६॥ सिंहासनं नरेंद्रौद्युतं त्यक्तवतो बभौ । सिंहासनं जिनस्यान्यत्सुरेंद्रपरिवारितं ॥ ३७॥ धर्मोक्तौ योजनव्यापी चेतःकर्णरसायनं । दिव्यध्वनिर्जिनेंद्रस्य पुनाति स्म जगत्त्रयं ॥ ३८ ॥ प्रातिहार्यादिविभवैर्विहृत्य विषयान् बहून् । अर्यमानः सुरैरायान्मागधं विषयं विभुः ॥ ३९ ॥ प्राप्तसप्तर्द्धिसंपद्भिः समस्तश्रुतपारगैः । गणेंद्रेरिंद्रभूत्याद्यैरेकादशभिरन्वितः ॥ ४० ॥ इंद्रभूतिरिति प्रोक्तः प्रथमो गणधारिणां । अग्निभूतिर्द्वितीयश्च वायुभूतिस्तृतीयकः ॥४१॥ शुचिदत्तस्तुरीयस्तु सुधर्मः पंचमस्ततः । षष्ठो मांडव्य इत्युक्तो मौर्यपुत्रस्तु सप्तमः ॥ ४२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org