________________
हरिवंशपुराणं ।
तृतीयः सर्गः। मौकमत्स्याकनीयांश्च सूरसेनवृकार्थपान् । मध्यदेशानिमान्मान्यान् कलिंगकुरुजांगलान् ॥ ४ ॥ कैकेयाऽऽत्रेयकांबोजबाह्रीकयवनश्रुतीन् । सिंधुगांधारसौवीरसूरभीरुदशेरुकान् ॥ ५ ॥ वाडवानभरद्वाजकाथतोयान् समुद्रजान् । उत्तरांस्तार्णकाणांश्च देशान् प्रच्छालनामकान् ॥ ६॥ धर्मेणायोजयत् वीरो विहरन् विभवान्वितः । यथैव भगवान् पूर्व वषभो भव्यवत्सलः ॥ ७॥ योतमाने जिनादित्ये केवलोद्योतभास्करे । क लीना इति न ज्ञातास्तीर्थखद्योतसंपदः ॥८॥ सर्वज्ञवीतरागस्य वपुर्वचनवैभवं । तदोपलभमानानां शक्ति भूत्परोक्तिषु ॥ ९ ॥ नित्यं निर्मलनिःस्वेदं गोक्षीरनिभशोणितं । दिव्यसंहतिसंस्थानरूपसौरभलक्षणं ॥ १० ॥ अनंतवीर्यपर्याप्तं स्वहितप्रियभाषणं । स्वाभाविकपवित्रात्मदशातिशयशोभितं ॥ ११ ॥ निमेषोन्मेषविगमप्रशांतायतलोचनं । सुव्यवस्थितसुस्निग्धनखकेशोपशोभितं ॥ १२ ॥ त्यक्तमुक्ति जरातीतमच्छायं छाययोर्जितं । एकतो मुखमप्यच्छचतुर्मुखमनोहरं ।। १३ ॥ द्वियोजनशतक्षोणीसुभिक्षत्वोपपादकं । उपसर्गासुमत्पीडाव्यपोहं गगनायनं ॥ १४ ॥ सर्वविद्यास्पदं कर्मक्षयोद्भूतदशाद्भुतं । दृष्टं श्रुतं वपुजैन व्यधत जगतः सुखं ।। १५ ।। कुलक अमृतस्येव धारां तां भाषासवधिमागधीं । पिवन् कर्णपुटर्जेंनी ततर्प त्रिजगज्जनः ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org