SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । २४ तृतीयः सर्गः । तत्र तीर्थकरः कुर्वन् प्रत्यहं धर्मदेशनं । सेवितः श्रेणिकेनास्य न हि तृप्तिस्त्रिवर्गजा ॥ १४६ ।। गौतमं च समासाद्य तदा तदुपदेशतः । सर्वानुयोगमार्गेषु प्रवीणः स नृपोऽभवत् ॥ १४७ ॥ ततो जिनग्रहैस्तुंगैः राज्ञा राजगृहं पुरं । कृतमंतर्बहियाप्तमजस्रमहिमोत्सवैः ॥ १४८ ॥ कृतः सामंतसंघातैर्महामंत्रिपुरोहितैः । प्रजाभिर्जिनगेहाढ्यो मगधो विषयोऽखिलः ॥ १४९ ॥ पुरेषु ग्रामघोषेषु पर्वताग्रेष्वदृश्यत । नदीतटवनांतेषु तदा जिनगृहावली ॥ १५० ॥ तिष्ठन्नेव महोदये विघटयन् मोहांधकारोन्नति, प्राग्देशप्रजया विधाय मगधादेशं प्रबुद्धप्रजं । तद्भूत्या पृथुमध्यदेशमगमन्मध्यंदिनश्रीधरं, मिथ्याज्ञानहिमांतकृज्जिनरविबोधप्रभामंडलः।१५१॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ धर्मतीर्थप्रवर्त्तनो नाम द्वितीयः सर्गः ॥२॥ तृतीयः सर्गः। मध्यदेशे जिनेशेन धर्मतीर्थे प्रवर्तिते । सर्वेष्वपि च देशेषु तीर्थमोहो न्यवर्तत ॥ १॥ आशयाः स्वच्छतां जग्मुर्जिनेंद्रोदयदर्शनात् । लोकेऽगस्त्योदये यद्वत् कलुषाश्च जलाशयाः ॥२॥ काशिकौशलकौशल्यकुसंध्यास्वष्टनामकान् । साल्वत्रिगर्तपंचालभद्रकारपटचरान् ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy