SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । २३ द्वितीयः सर्गः । पंचधाणुव्रतं केचित् त्रिविधं च गुणवतं । शिक्षाव्रतं चतुर्भेदं तत्र स्त्रीपुरुषा दधुः ॥ १३४ ॥ तिर्यंचापि यथाशक्ति नियमेष्ववतस्थिरे । देवाः सद्दर्शनज्ञानजिनपूजासु रेमिरे || १३५ ॥ श्रेणिकेन तु यत्पूर्वं बह्वारंभपरिग्रहात् । परिस्थितिकमारब्धं नरकायुस्तस्तमे ।। १३६ ।। तत्तु क्षायिकसम्यक्त्वात् स्वस्थितिं प्रथमक्षितौ । प्रापद्वर्षसहस्राणामशीतिं चतुरुत्तरां ॥ १३७ ॥ त्रयस्त्रिंशत् समुद्राः क क चेयमपरा स्थितिः । अहो क्षायिक सम्यक्त्व प्रभावोयमनुत्तरः || १३८ || अक्रूरो वारिषेणो यो योऽभयः स तथा परे । कुमारा मातरचैषां पराश्रांतःपुरस्त्रियः ।। १३९ ।। सम्यक्त्वं शीलसद्दानं प्रोषधं जिनपूजनं । प्रतिपद्य विनेमुस्तं जिनेंद्र त्रिजगद्गुरुं ॥ १४० ॥ ततः प्रणम्य देवेंद्रा जिनेंद्रं स्तोत्रपूर्वकं । यथायथं ययुर्युक्ता निजवगैर्निजास्पदं ॥ १४१ ॥ श्रेणिais पि गुणश्रेणीमुच्चकैरभिरूढवान् । अभिष्टुत्य जिनं नत्वा प्रविष्टस्तुष्टधीः पुरं ॥ १४२ ॥ निःसरद्भिर्विशद्भिश्च सभा जैनी जनोर्मिभिः । चुक्षोभ क्षुभितैर्वेला नदीपूरैरिवांबुधेः ॥ १४३ ॥ आकीर्णमेव तैर्नित्यं सभामंडलमर्हतः । हीयते वा कदा स्फीतैर्भानुभिर्भानुमंडलं ।। १४४ ॥ नोदयास्तमितं तत्र ज्ञायते वैध्नमंडलं । धर्मचक्रप्रभाचक्रप्रभामंडल रोचिषा ।। १४५ ।। १ नारकायुस्तु सप्तमे इत्यपि । २ सूर्यमंडलं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy