SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । २२ द्वितीयः सर्गः । चक्षुर्गोचरजीवौघान् परिहृत्य यतेर्यतेः । ईर्ष्यासमितिराद्या सा व्रतशुद्धिकरी मता ।। १२२ ।। त्यक्त्वा कार्कश्यपारुष्यं यतेर्यत्ववतः सदा । भाषणं धर्मकार्येषु भाषासमितिरिष्यते ॥ १२३ ॥ पिंडशुद्धिविधानेन शरीरस्थितये तु यत् । आहारग्रहणं सा स्यादेषणासमितिर्यतेः ॥ १२४ ॥ निक्षेपणं यदादानमीक्षित्वा योग्यवस्तुनः । समितिः सा तु विज्ञेया निक्षेपादाननामिका ॥ १२५ शरीरांतर्मलत्यागः प्रगतासु सुभूमिषु । यत्तत्समितिरेषा तु प्रतिष्ठापनिका मता ।। १२६ ।। एवं समितयः पंच गोप्यास्तिस्रस्तु गुप्तयः । वाङ्मनः काययोगानां शुद्धरूपाः प्रवृत्तयः ॥ १२७॥ चित्तेंद्रियनिरोधश्च षडावश्यकसत्क्रियाः । लोचास्त्रानैकभक्तं च स्थितिभुक्तिरचेलता ॥ १२८ ॥ भूमिशय्यात्रतं दंतमलमार्जन वर्जनं । तपः संयमचारित्रं परीषहजयः परः ।। १२९ ।। अनुप्रेक्षाच धर्मश्च क्षमादिदशलक्षणः । ज्ञानदर्शनचारित्रतपोविनयसेवनं ।। १३० ॥ इति श्रमणधर्मोऽयं कर्मनिर्मोक्षहेतुकः । सुरासुरनराध्यक्षं जिनोक्तस्तं तदा नराः ॥ १३१ ॥ संसारभीरवः शुद्धजातिरूपकुलादयः । सर्वसंगविनिर्मुक्ताः शतशः प्रतिपेदिरे ।। १३२ ॥ सम्यग्दर्शनसंशुद्धाः शुद्धैकवसनानृताः । सहस्रशो दधुः शुद्धा नार्यस्तत्रार्थिकावतं ॥ १३३ ॥ १ गच्छतः । २ ' जिनेनोक्तस्तदा नराः ' इति सुष्ठु भाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy