________________
हरिवंशपुराणं ।
२१
द्वितीयः सर्गः
द्विविधं कर्मबंधं च सहेतुं सुखदुःखदं । मोक्षं मोक्षस्य हेतुं च फलं चाष्टगुणात्मकं ॥ १०९ ॥ बंधमोक्षफलं यत्र भुज्यत तत् त्रिधाकृतं । अंतःस्थितं जगौ लोकमलोकं च बहिःस्थित।।११०॥ अथ सप्तर्द्धिसंपन्नः श्रुत्वार्थ जिनभाषितं । द्वादशांगश्रुतस्कंधं सोपांगं गौतमो व्यधात् ।।१११॥ त्रैलोक्यं संसदि स्पृष्टं जिनार्कवचनांशुभिः । मुक्तमोहमहानिद्रं सुप्तोत्थितमिवाबभौ ।। ११२ ॥ जिनभाषाऽधरस्पंदमंतरेण विज॑भिता । तिर्यग्देवमनुष्याणां दृष्टिमोहमनीनशत् ।। ११३ ।। ततो जिनोक्ततत्त्वार्थमागश्रद्धानलक्षणं । शंकाकांक्षानिदानादिकलंकविगमोज्ज्वलं ॥ ११४ ॥ सम्यग्दर्शनसद्रत्नं ज्ञानालंकारनायकं । स्वकर्णहृदयेष्वेकं पिनद्धमखिलागिभिः ॥ ११५ ॥ कायेंद्रियगुणस्थानजीवस्थानकुलायुषां । मेदान् योनिविकल्पांश्च निरूपागमचक्षुषा ॥ ११६ ॥ क्रियासु स्थानपूर्वासु वधादिपरिवर्जनं । षण्णां जीवनिकायानामहिंसाद्यं महाव्रतं ।। ११७ ॥ यद्रागद्वेषमोहेभ्यः परतापकरं वचः । निवृत्तिस्तु ततः सत्यं तद् द्वितीयं महावतं ॥ ११८ ॥ अल्पस्य महतो वापि परद्रव्यस्य साधुना । अनादानमदत्तस्य तृतीयं तु महाव्रतं ।। ११९॥ स्त्रीपुंसंगपरित्यागः कृतानुमतकारितैः । ब्रह्मचर्यमिति प्रोक्तं चतुर्थ तु महाव्रतं ॥ १२० ॥ वाह्याभ्यंतरवर्तिभ्यः सर्वेभ्यो विरतिर्यतः । स्वपरिग्रहदोषेभ्यः पंचमं तु महाव्रतं ॥ १२१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org