________________
हरिवंशपुराणं।
द्वितीयः सर्गः । सप्रकीर्णकनक्षत्रसूर्याचंद्रमसो ग्रहाः । पंचभेदास्तदाऽनल्पवपुषो ज्योतिषो वभुः ॥ ८४ ।। मौलिकुंडलकेयूरप्रालंबकटिसूत्रिणः। हारिणः कल्पवृक्षाभास्ततोऽभात्कल्पवासिनः ॥ ८५ ॥ सपुत्रवनितानेकविद्याधरपुरस्सराः । न्यषीदन् मानुषा नानाभाषावेषरुचस्ततः ।। ८६ ॥ ततोहिनकुलेभेंद्रहर्यश्वमहिषादयः । जिनानुभावसंभूतविश्वासाः शमिनो बभुः ॥ ८७ ॥ इति द्वादशभेदेषु परीतिं विनुतिं नतिं । गणेषु प्रथमं कृत्वा स्थितेषु परितो जिनं ।। ८८ ॥ प्रत्यक्षीकृतविश्वार्थं कृतदोषत्रयक्षयं । जिनेंद्र गोतमोपृच्छत्तीर्थार्थ पापनाशनं ॥ ८९ ॥ स दिव्यध्वनिना विश्वसंशयच्छेदिना जिनः । दुंदुभिधनिधीरेण योजनांतरयायिना ॥९० ॥ श्रावणस्यासिते पक्षे नक्षत्रेऽभिजिति प्रभुः । प्रतिपद्यहि पूर्वाह्ने शासनार्थमुदाहरत् ॥ ९१ ॥ आचारांगस्य तत्त्वार्थ तथा सूत्रकृतस्य च । जगाद भगवान् वीरः संस्थानसमवाययोः ॥९२॥ व्याख्याप्रज्ञप्तिहृदयं ज्ञातृधर्मकथास्थितं । श्रावकाध्ययनस्यार्थमंतकृद्दशगोचरं ।। ९३ ॥ अनुत्तरदशस्यार्थ प्रश्नव्याकरणस्य च । तथा विपाकसूत्रस्य पवित्रार्थ ततः परं ॥ ९४ ॥ त्रिषष्टिः त्रिशती यत्र दृष्टीनामभिधीयते । दृष्टिवादस्य यस्याय पंचभेदस्य सर्वदृक् ।। ९५॥
१ सुपुत्रानामिता इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org