SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। द्वितीयः सर्गः । श्रेणिकोऽपि च संप्राप्तः सेनया चतुरंगया । सिंहासनोपविष्टं तं प्रणनाम जिनेश्वरं ॥ ७१ ॥ छत्रचामर,गारैः कलशध्वजदर्पणैः । व्यञ्जनैः सुप्रतीकैश्च प्रसिद्धैरष्टमंगलैः ॥ ७२ ॥ स्रजचक्रदुकूलाब्जगजसिंहवृषध्वजैः । गरुडध्वजसंयुक्तैरष्टभेदैर्महाध्वजैः ॥ ७३ ॥ मानस्तंभैस्तथा स्तूपैश्चतुर्भिश्च महावनैः । वाप्यंभोरुहखंडैश्च वल्लीवनलतागृहैः ।। ७४ ॥ तैस्तैर्देवैः कृतैः सर्वैरन्यैश्चातिशयैस्तथा । यथास्थानस्थितेजेंनी समवस्थानभूरभात् ।। ७५ ॥ अथेदोरिव शुक्राचा निषण्णा गुधिष्ठिताः । साधवोऽभाज्जिनस्यांते जातरूपाच्छविग्रहाः।।७६॥ ततः कल्पनिवासिन्यो देव्यः कल्पलताभुजः । मेरोरिव जिनस्यांते ता बभुर्भोगभूमयः ।।७७।। ततोऽलंकृतनारीभिरार्यिकाततिराबभौ । स्फुरद्विद्युद्भिराश्लिष्टशारदीव धनावली ॥ ७८ ॥ ज्योतिर्देव स्त्रियोऽतश्च रेजुरुज्ज्वलमूर्तयः । तास्तारा इव संक्रांताः समवस्थानसागरे ॥ ७९ ॥ कांता व्यंतरदेवानां ततस्तत्र विरेजिरे । करकुड्मलहारिण्यः साक्षादिव वनश्रियः ॥ ८॥ ततो नागकुमारादिदेव्यो नागफणोज्ज्वलाः । नागलोकसमायाता नागवल्य इवाबभुः ॥८॥ ततोऽप्यग्निकुमाराद्या देवाः पातालवासिनः । ज्वलितोज्ज्वलवेशास्ते दशभेदा बभासिरे ॥८२॥ ततः किन्नरगंधर्वयक्षकिंपुरुषादयः । षोडशार्द्धविकल्पास्ते व्यंतराश्च चकासिरे ॥ ८३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy