________________
हरिवंशपुराणं।
द्वितीयः सर्गः। उत्तराफाल्गुनी प्राप्ते शुक्लध्शानी निशाकरे । निहत्य घातिसंघातं केवलज्ञानमाप्तवान् ॥ ५९ ॥ केवलस्य प्रभावेण सहसा चलितासनाः । आगत्य महिमां चक्रुस्तस्य सर्वे सुरासुराः ॥६०॥ षक्षष्टिदिवसान भूयो मोनेन विहरन् विभुः । आजगाम जगत्ख्यातं जिनो राजगृहं पुरं ॥३१॥ आरुरोह गिरिं तत्र विपुलं विपुलश्रियं । प्रबोधार्थं स लोकानां भानुमानुदयं यथा ॥ ६२ ॥ ततः प्रबुद्धवृत्तांतरापतद्भिरितस्ततः । जगत्सुरासुरैव्याप्तं जिनेंद्रस्य गुणैरिव ।। ६३ ।। सौधर्माद्यैस्तदा देवैः परितोऽभात् स भूधरः । नाभेयाधिष्ठितः पूर्व यथाष्टापदपर्वतः ॥ ६४ ॥ चतुराशामुखद्वारस्थितद्वादशगोपुरं । कृतं रत्नमयं देवैः प्राकारवलयत्रयं ।। ६५ ॥ जाते योजनविस्तीर्णे शरणे समवादिके । विभागा द्वादशाभासन्नभः स्फाटिकभित्तयः ।। ६६॥ प्रातिहायुतोऽष्टाभिश्चतुस्त्रिंशन्महाद्भुतैः । तत्र देवैर्वृतोऽभासीत् जिनश्चंद्र इव ग्रहैः ॥६७॥ इंद्राग्निवायुभूत्याख्याः कौंडिन्याख्याश्च पंडिताः। इंद्रनोदयनयाऽऽयाताःसमवस्थानमर्हतः॥६८॥ प्रत्येकं सहिताः सर्वे शिष्याणां पंचभिः शतैः । त्यक्तांबरादिसंबंधाः संयमं प्रतिपेदिरे ॥ ६९ ॥ सुता चेटकराजस्य कुमारी चंदना तदा । धौतेकांबरसंवीता जातार्याणां पुरःसरी ॥ ७० ॥
१ कैलास इत्यपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org