________________
हरिवंशपुराणं ।
१६
द्वितीयः सर्गः ।
सुरासुरनराधीश मौलिमालाचिंतक्रमः । त्रिंशद्वर्षप्रमाणोऽभूद्वीरो भोगैः परिष्कृतः ॥ ४७ ॥ शुद्धवृत्तं न भोगेषु चित्तं तस्य चिरं स्थितं । कुटिलेषु यथा सिंहनखरंध्रेषु मौक्तिकं ॥ ४८ ॥ शांतचितं कदाचित् तं स्वयंबुद्धमबोधयन् । नत्वा सारस्वतादित्य मुख्याः लौकांतिकाः सुराः || ४९ सौधर्माद्यैः सुरैरेत्य कृतोऽभिषवपूजनः । आरुह्य शिविकां दिव्यामुद्यमानां सुरेश्वरैः || ५० ।। उत्तराफाल्गुनीष्वेव वर्तमाने निशाकरे | कृष्णस्य मार्गशीर्षस्य दशम्यामगमद्वनं ॥ ५१ ॥ अपनीय तनोः सर्वं वस्त्रमाल्यविभूषणं । पंचमुष्टिभिरुद्धत्य मूर्धजानभवन्मुनिः ॥ ५२ ॥ केशकुंडलसंघातं जिनस्य भ्रमरासितं । प्रतिगृह्य सुराधीशो निदध्यौ दुग्धवारिधौ ॥ ५३ ॥ इंद्रनीलचयेनेव क्षिप्तेनेंद्रेण चात्यभात् । जिनेंद्रकेशपुंजेन रंजितः क्षीरसागरः || ५४ ॥ जिननिष्क्रमणं दृष्ट्वा तुष्टाः सर्वे नरामराः । कृत्वा तृतीय कल्याणपूजां जग्मुर्यथायथं ॥५५॥ मनःपर्ययपर्यंतचतुर्ज्ञानमहेक्षणः । तपो द्वादशवर्षाणि चकार द्वादशात्मकं ।। ५६ ।। विहरन्नथ नाथोऽसौ गुणग्रामपरिग्रहः । ऋजुकूलापगाकूले जृंभिकग्राममीयिवान् ॥ ५७ ॥ तत्रातापनयोगस्थसालाभ्याशशिलातले । वैशाखशुक्लपक्षस्य दशम्यां षष्ठमाश्रितः ॥ ५८ ॥
१ शालवृक्षनिकटस्थशिलोपरि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org